बाह्यान्तरयोः करणयोर्विशेषान्तरमाह-"साम्प्र-
तकालम्" इति । वर्तमानकालं बाह्यमिन्द्रियम् ।
वर्तमानसमीपमनागतमतीतमपि वर्तमानम् । अतो
वागपि वर्तमानकालविषया भवति । त्रिकालमाभ्य-
तरं करणम्” इति । तद्यथा---नदीपूरभेदादभूद्*वृष्टिः।
अस्ति धूमादग्निरिह नगनिकुञ्जं, असत्युपघातके पि-
वतीति । अन्यथाऽन्धादेरपि रूपादिदर्शनापतेरित्यर्थः । एवं क- मेंन्दियव्यापारस्यापयोगमाह । कर्मेन्द्रियाणीति । तथा च कर्मे- न्द्रियव्यापारेण जनिते पदार्थे बुद्धीन्द्रियप्रवृत्याऽन्तःकरणप्रवृत्ति- रित्यर्थः । अनागतामति । अनागतमित्यनेनातीतमपि ग्राह्यम् । एतच्च व्याख्यातं पुरस्तात् । सामीप्यग्रहणफलमाह । अत इति । वागू इन्द्रियं तज्जन्यः शब्दोऽपि वागित्युच्यते । तस्यातीताद्यर्थवि- षयकत्वाद्वर्तमानार्थविषयत्वमपि सम्भवतीत्यर्थः ।
न च वाक्पदस्य शब्दपरत्वे मानाभाव इति वाच्यम् । यः
कश्च शब्दों वागेव सैषाह्यन्तमायतैषा हितेति बृहदारण्यकश्रुतेर्मान-
त्वात् । श्रुतिस्तु यः कश्च शब्दः शब्दसामान्यं वागेव हि यस्मात्
सैषा शब्दात्मिकेन्द्रियरूपा वाक् अन्तं निर्णयात्मकं सिद्धान्तम-
भिधेयनिर्णयमायत्ता तु अनुमानशब्दसहकारणातीतादिविषयकमि
न्द्रियसहकारेण तु वर्तमानविषयकमेवेत्यभिप्रायेणाह । तद्यथेति ।
न च नदीपुरभेदस्य पूर्णत्वशीघ्रत्वरूपविशेषविशिष्टपूरत्वरू- पहेतोर्नर्धा वर्तमानस्य पर्जन्यापादानकप्रथमाध्वजलसम्बन्ध- रूपवृष्टैरुपरि देशस्थत्वेन ब्यधिकरणत्वात्कथं तेन भूतवृष्ट्यनुमा- नामति वाच्यम् । भूतदृष्टिमदुपरिदेशसम्बन्धित्वस्यैवानुमानात् ।
प्रयोगस्तु । नदी तादृशवृष्टिमदुपरिदेशसम्बन्धिनी उक्तवि- शिष्टपूरत्वादित्यादि । वर्तमानहेतुबलाद्वर्तमानत्वं साध्ये सिध्यती: त्यभिप्रायेणाह । अस्तीति ॥ ३३ ॥