सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०७
करणानां विभागः


वर्गलक्षणः पुरुषार्थ एवानागतावस्थः प्रवर्तयति करणानि, कृतमत्र तत्स्वरूपाभिज्ञेन कर्त्रा। एतञ्च "वत्सविवृद्धि निमित्तम्” (कारिका ५७) इत्यत्रोपपादयिष्यते ॥ ३१ ॥

 'न केनचित् कार्यतं करणम् इत्युक्तम् । तत्र क- रणं विभजते-


 करणं त्रयोदशविधम्, तदाहरणधारणप्रकाशकरम् ।
 कार्यं च तस्य दशधा,ऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥

 

 करणं त्रयोदशविधम् इति । इन्द्रियाण्येकादश बुद्धिरहङ्कारश्चेति त्रयोदश प्रकार करणम् । कारक- विशेषः करणम् । न च व्यापारावेशं विना कारक-


 मूले न केन चिच्चेतनेन कार्यते प्रेर्यते करणमित्यर्थः । ते नादृष्टप्रेर्यत्वेऽपि करणस्य न क्षतिरिति । उक्तनियमे स्वयं व्यभि- चारस्यापदर्शितत्वादाह व्याख्यायाम् एतच्चेति ।

 अन्ये तु । पुरुषार्थ एवं स्वविषयकेच्छाद्वारा करणव्यापार हेतुरित्यर्थः । तत्रेच्छावान् जीवः कर्ताऽऽवश्यक ईश्वरस्तु न तद- पेक्षायां मानाभावादित्याहुः तन्न । जीवस्यापि कर्तृत्वाङ्गीकारेऽप- सिद्धान्तोपत्तेः । कूटस्थहान्यापत्तेरीश्वरानङ्गीकारे श्रुतिविरोधापत्ते- रक्तत्वाच्च ॥ ३१ ॥

 अवसरसङ्गतिं सूचयन् बाह्यान्तर्मिलित्वा कियन्ति करणानी- त्याकाङ्क्ष्याऽऽर्यामवतारयति । न केन चिदिति । तत्रेति। अवच्छिन्नत्वं सप्तम्यर्थस्तथा च प्रेर्यत्वाभावावच्छिन्नं करणं विभज- ते इत्यर्थः । क्वचित्तत्करणमिति पाठस्तु सुगम एव ।

 विधपदस्य वैयर्थ्यमाशाङ्क्याह । त्रयोदशप्रकरमिति तथा च व्यक्तिभेदेनानन्त्यप्रतिपादनान्न वैयर्थ्यमित्यर्थः । व्यापार- वदसाधारणं कारणं करणमिति मतनिरासायाह । कारकविंशष