रूपतो व्यक्तिद्वयावृत्ति वक्तव्यम् । स्वरूपत इत्यनुपादाने भूतत्वा-
दावनेन हेतुना जातित्वाभावसाधने आकाशघटान्यतरत्वविशिष्ट-
द्रव्यत्वादौ व्यभिचारापत्तेः । तस्य पृथिवीत्वमृर्त्तत्वादिरूपता
दृशजातिसमानाधिकरणान्योन्याभाव प्रतियोगितावच्छेदकत्वात् ।
विशिष्टस्यानतिरिक्ततया तस्य जातिवाभावविरहात् । व्यक्ति-
द्वयावृत्तीत्यनुपादाने द्रव्यत्वादेरपि पृथिवीत्वादिना सङ्कीर्णतापत्तेः।
एकत्र द्वयमिति न्यायेन स्वरूपतो द्रव्यत्वजलत्वोभयाद्यवच्छिन्ना-
न्योन्याभावस्य पृथिवीत्वादी सत्त्वात् ।।
यद्वा स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणान्योन्या- भावप्रतियोगितावच्छेदिका या जातिस्तत्समानाधिकरणात्यन्ता- भावप्रतियोगित्वम् । प्रतियोगित्वं च स्वरूपतो व्यक्तिद्वयावृत्त्य- धिकरणतावच्छिन्नत्वेन समयावच्छिन्नत्वेन च विशेषणीयम् , नातो वैशिष्ट्यव्यासज्ज्यवृत्तिधमविच्छिन्नाभावं विशेषणतादिव्य- धिकरणसम्बन्धाव च्छिन्नत्वेनाभावं चादाय दूत्यत्वादेः पृथिवीत्वा- दिना साङ्कर्यापत्तिः । व्यक्तिद्वय्वृत्तिवं च द्वित्वपर्याप्त्यधिकरणा- वृत्तित्वं शेषं पूर्ववदिति चेन्न । भूतत्वादावनेन हेतुना जातित्वा- भावसाधने स्वत्वस्यानुगतस्याभावात् । भूतत्वादेरुपादाने जल- त्वादौ व्यभिचारापत्तेः । तस्य भूनत्वसामानाधिकरण्यभूतत्वसमा- नाधिकरणान्योन्याभावप्रतियोगितावच्छेदकत्वोभयवत्पृथिवीत्वा- दिसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकत्वात् । तादृशो- भयवत्पृथिवीत्वादि समानाधिकरणात्यन्ताभविप्रतियोगित्वाद् वा।
न च तादृशोभयवज्जातिसमानाधिकरणान्योन्याभावप्रतियोगि- तावच्छेदकत्वे सति तादृशोभयावावज्जातिसमानाधिकरणात्यन्ता- भावप्रतियोगित्वे सति वा भूतत्वादिरेव हेतुरिति वाच्यम् । तथा सति ससन्तदलवैयर्थ्यापत्तेः ।।
न च तावन्मात्रमेवास्त्विति वाच्यम् । साङ्कर्यकथनस्योन्मत्त-
५१