सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
वृत्तीनां यौगपद्यायौगपद्यनिरूपणम् ।


चतुर्विधकरणस्यास्यासाधारणीषु वृत्तिषु क्रमाक्रमौ सप्रकाराचाह-


 युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।।
 दृष्टे, तथा ऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥


 युगपदिति, दृष्टं प्रथा-पदा सन्तमसान्धकारे वि- युत्सम्पातमात्रायाद्व्याघ्रमभितुसुखमतिसन्निहितं पश्यति तदा खल्वेस्यालोचनमङ्कल्याभिमानाध्यवसायाः युग- पदेव प्रादुर्भवन्ति, यतस्तत उत्प्लुत्य तत्स्थानादेकपदे ऽपसरति ॥




दिचष्टाहेतुर्व्यानः । ऊर्ध्वगमनवानुत्क्रमणवायुरुदानः । अशितपी- तान्नपानदिरौदर्याग्निप्रेरणद्वारा पाकेन रसादिभावमापाद्य समी- करणात्सकलशरीरप्रदेशेषु प्रवेशनात्समानः । क्षुत्पिपासाहेतुरिति क्रियाकार्यभदात् संज्ञाभेद इत्याहुः ॥ ३९ ॥ ।

 उपजीवकत्वसङ्गत्याऽऽर्यामवतारयति । असाधारणीष्वितिदृष्ट । प्रत्यक्षविषये । युगपदेवति । बाह्यन्द्रिगमनोहङ्कारः महत्तत्त्वस्येति शेषः ।

 एतेन मूलस्थचतुष्टयस्येति पदं व्याख्यातम् । जातिसाङ्क: र्यस्यास्माकमदोषात् । सामग्रीसमवधाने सत्यनेकैरपीन्द्रियैरेकदैक- वृत्युत्पादने बाधकं नास्तीति भावः ।

 न चैकवृत्यङ्गीकारे भवन्तीत्युक्तिविरोधापत्तिरिति वाच्यम् । एकस्या एवानेकाकारतामादाय बहुवचनोपपत्तेः । अन्यथा वृत्ति रिति मूलविरोधापत्तेः । अक्रमोत्पत्तौ वृत्तेरनेकत्वे मानाभावा- द्गौरवाच्च । आलोचनं निर्विकल्पकम् । तत्र हेतुमाह । यत इति । एकपदे, शीघ्रमेव ।।

 यत्तु साङ्कर्यस्य जातिबाधकत्वे स्वसामानाधिकरण्यस्वा-