"वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्' कर्मेन्द्रि-
याणाम् । कण्ठताल्वादिस्थानमिन्द्रियं वाकू, तस्या वृ-
त्तिर्वचनम, ज्ञानेन्द्रियाणां वृत्तयः स्पष्टाः ॥ २८ ॥
अन्तःकरणत्रयस्य वृत्तिमाह-
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥
"स्वालक्षण्यम्” इति । स्वालक्षण्यं वृत्तिस्त्रयस्य ।
स्वमसाधारणं लक्षणं येषां तानि स्वलक्षणानि महदह-
कारमनांसि, तेषां भावः स्वालक्षण्यम्, तञ्च स्वानि
स्वानि लक्षणान्येव । तद्यथा--भहतो ऽध्यवसायो ऽह
यद्यप्यानन्दो बुद्धिगतत्वादुपस्थव्यापारो न भवितुमर्हति त- थाऽप्यानन्दपदेनानन्दहेतुस्त्रीपुंल्लिङ्गस्पर्शविशेष एवोक्तछत्तिः फलं परिणामेति यावत् । मुले मात्रपदेन सविकल्पकज्ञानव्यवच्छेदः । वचनादिव्युदास इति केचित् ॥ २८ ॥
अवसरसङ्गत्यान्तःकरणस्य वृत्तिमाः । अतःकरणेति । वायवः पञ्च इति । प्रणादिरूपाः पञ्च वायुवत्सञ्चारात् वाय- वो न तु प्रसिद्धवायवः
अत्र कश्चित्पाणाद्या वायुविशेषा एव ते चान्तःकरणवृत्त्या जीवनयोनिप्रयत्नरूपया मीयन्ते इति कृत्वा प्राणाद्याः करणवृत्ति- रित्यभेदनिर्देश इत्याह । तन्न । “एतस्माज्जायते प्राणो मनः सर्वे- न्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणीं । प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च” “न वायुक्रिये पृथगुपदेशादिति” श्रुतिसुत्रविरोधादिति । तथा चान्तःकरणपरिणामेऽपि वायुतुल्यसञ्चारविशेषाद्वायुदेवताधिष्ठि- तत्वाञ्च वायुव्यवहारोपपत्तिरित्यर्थः ।