पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९१
अविद्यायां प्रमाणोपन्यासः ।


 नैयायिकाः । इच्छादि पृथिव्याद्यष्टद्रव्यातिरिक्ताश्रितं तद- समवेतत्वे सति गुणत्वाद्यन्नैवं तन्नैवं यथा गन्धादि । न च विशेष- णासिद्धिः । न तावदिच्छादिः स्पर्श वद्विशेषगुणा अयावद्रव्यभा- वित्वान्नापि नभोविशेषगुण बाह्यन्द्रियाग्राह्यत्वान्नापि दिक्कालमनो: गुणः विशेषगुणत्वादिति नत्सिद्धेः । न च विशेषगुणत्वमसिद्धम् , गुणत्वे सत्यकैकन्द्रियग्राह्यत्वेन तत्सिद्धेरितीच्छादिगुणवद् द्रव्यमन्य- देवात्मेत्यनुमिमते । प्रत्यक्षमिद्धस्यैवात्मनो विप्रतिपत्तिानराकरणेन सम्भावनाबुद्धिजनकान्यनुमानानीति तदा न कश्चिद्विरोधः । यदि तु निखानुमेय एव तदा कुम्भवदहमित्यपरोक्षावभासो विरुध्येत । तत्रापि प्रमितिस्त्वात्मनि संयुक्तसमवायानिमित्तकाज्ञानान्तरादपरो- क्षेति नैयायिकवैशेषिकाः ।

 तन्न आन्मविषयकं ज्ञानं मनोजन्यमत्र प्रमाणाभावात् । न च व्यावृत्ते मनस्यात्मदृष्टेव्यावृत्तेरछेरदृष्टेरन्वयव्यतिरेकावेवात्मनः मा- नसत्वे मानमिति वाच्यम् । तोरात्मव्यवहारहेतुविषयानुभव- विषयतयाऽन्यथासिद्धत्वान् । न चात्मानुभवावषयत्वमेव तयोः किन्न स्यादिति शङ्क्यम् । विषयज्ञानाश्रयत्वेनात्मनि व्यवहारसम्भवे ज्ञानान्तरादात्मसिद्धिकल्पनायां गौरवप्रसङ्गात् । तस्माद्विष- यत्वमन्तरेणात्मा परोक्षः । न चैतद्युक्तमात्मसमवेतानुभवस्य संयुक्तसमवायजज्ञानविषयतया विषयनिष्ठानुभवस्य संयुक्त- तादात्म्यजज्ञानविषयतयापराक्षत्वमिति विकल्पासहत्वाद्यथा चै- त्तथोक्तं प्राक् ।

 ननु, सुषुप्तोत्थितस्य सुखमहमस्वाप्समिति सुखाश्रयकोटि- निक्षिप्ततयाऽहमः परामर्शः । धर्मप्रतियोगिज्ञानाभवेन दुःखाभावा- सम्भवाद्विषयसन्निकर्षाभावाद्वषयसुखानुभवासम्भवात् स्मरणान्य- थानुपपत्या स्वरूपमुखानुभवाङ्गीकारः । न च विद्यावृतत्वात्कथं स्वरूपसुखानुभव इति शङ्क्यम् । पूर्णसुखस्याप्रकाशेऽप्यज्ञान साधक-