सुखरूपत्वं सुग्वं में स्यादिनिवत्सुखमहंस्यामित्यपि स्यात् । न
चाविद्यावृतत्वेन भ्रमाद्विपर्यय इति वाच्यम् । म न जानामीत्य-
ननुभवात् ।
ननु सुपुप्तोत्थितस्य मुखमहमस्वाप्समिति स्मृत्यभिलपमूल- कः सुखानुभावो नित्यान्मरूप एवं कल्पनीयो मनःसंनिकर्षदिसा- मग्र्यभावेन जन्यसुखत्वानुभवस्याभावादिति चेन्न । स्वीयाव्यवहि- तपूर्वक्षणे शय्यामृदुस्पर्शादिजन्य सुखस्य तदन्तक्षणपर्यन्तानुवृत्ति- कल्पनेन तत्रान्तरस्वविषत्वरूपस्वप्रकाशवाभ्युपगमेन सुख- तदनुभवसंस्कार स्मृतीनानामुपपादनसम्भवात् । न च सत्यं ज्ञान- मानन्दं ब्रह्मेतिश्रुतिस्तत्र मानम् । नाहं ब्रह्मति प्रत्यक्षेण संसा- रित्वासंसारित्वविरुद्धधर्मलिङ्ग कानुमानसहकृतद्वासुपर्णेतिश्रुत्या त- त्त्वमसीतिवाक्पस्य तदभेदप्रमानुत्पादकत्वात् ।
अत्रोच्यते सिद्धत्वेऽपि सदा भूयासं न कदाचन मा भूवमि- त्यात्मनो भाविसर्वकालसम्बन्धित्वरूपसदातनत्वगोचरेच्छायाः स- र्वजनीनत्वात् । न च सुखाधिकरणतया सुखार्थत्वोपाधिनीच्छा । तहिं सुखस्यापि भोगसाधनतया तदुपाधिकी स्यात् । श्रुतिस्तु आत्मनः कामाय सर्व्ं प्रियं भवतीति सर्वस्य वैषयिकसुखस्या- त्पभोग्यत्वादेव तत्साधनानां प्रियत्वोक्त्या ससाधनस्य सर्व सुखस्य स्वारसिकप्रेमास्पदत्वं प्रतिषिध्यात्मन एव तत्प्रतिपाद- नेनान्यसर्वशेषत्वं बोधयति । आत्मन इति षष्ठी भोग्यत्वार्था काम्यन्ते इति कामाः सुखं तथा चात्मभोगसुखायेत्यर्थः । इत्थं चात्मन एव स्वारसिकसुखत्वेऽपि अविद्यावृत्तत्वादेवात्मा न सुखें सुखमहमियप्रतीतिश्च सुखं मे स्यादितीच्छा चेत्यादि नानु- पपन्नम् । तथा च आत्मा सुखं परमप्रेमास्पदत्वात्सुखवदि- त्युपपन्नम् ।
यत्तु स्वीयाव्यवहितपूर्वक्षणे शय्यामृदुस्पर्शादिजन्यमुखस्य