तिरपि आत्मा न स्वयंज्योतिरियनुमाने । न च संविद्रूपत्वमसि द्धम् । प्रज्ञानात्मतादिवाक्यात्तसिद्धेः । न चाहं जानामीति ज्ञाना- श्रयत्वम् । तस्या अहंकाराश्रयविषयत्वात् । न चात्माश्रय एवं भवतु । विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिबलेनात्मनो ज्ञानरूपब्रह्मा- भिन्नत्वेन ज्ञानाश्रयत्वाभावात् ।।
ननु श्रुतौ विज्ञानपदं विज्ञातृपरामात आत्मनो विज्ञात्रभेद- एव बोध्यते । न च ज्ञानशब्दस्य बोधार्थत्वात्कथं ज्ञातृपरत्वमिति शङ्क्यम् । करणाधिकरणयाचेति सुत्रे ल्टूप्रत्ययस्याधिकरणे वि- धानात् । न च भावेऽपि विधानात्कथ विनिगम इति शङ्क्यम् । भावार्थस्य क्रियात्मकत्वेनात्मनस्तद्रूपतानुपपत्तेः ।।
मैवम् ।अक्रियात्मकस्यापि धात्वर्थस्य गडि वदनैकदेशे इत्या- दौ प्रसिद्धत्वात् । अद्वैतश्रुतिविरोधापत्तेश्च । किञ्च स्वातिरिक्ता- न्यनेकानि कल्पनीयानि तत्र चोत्पादविनाशौ कल्पनीयौ तथा चातिगौरवादनन्यनिमित्तप्रकाशत्वमेव युक्तम् । किञ्च विमतं नागन्तुकं प्रागभावशून्यत्वाद्गगनवत् । न च साध्या वैशिष्ट्यम् । आद्यक्षणसम्बन्धाभावस्य साध्यत्वात् । न च हेत्वसिद्धिः । आत्मनि प्रकाशप्रागभावाभ्युपगमे जिज्ञासायां संशयविपर्ययभावप्रमाप्रस- ङ्गात् । न चेष्टापात्तः । अनुपलम्भबाधितत्वादिति ।
अविद्यायां प्रत्यक्षानुमानाथापत्तयः प्रमाणमित्युक्तम् । श्रुति- स्मृतयोऽपि तां प्रमाणयन्ति ।
तत्र श्रुतयः । "अनृतेन हि प्रत्यूढाः" । "तदिमेऽसत्यकायाः" ।।
"अनीशया शोचति मुह्यमानः" । 'न तं विदाथ ये इमा जजा- नान्यसुष्माकमन्तरं बभूव नीहारेण प्रावृता जल्प्या चासुतृप उ-. क्थशासश्चरन्ति । अविद्यायामन्तरे वर्तमाना नान्यच्छ्रेयो वेदयन्ते’ इत्याद्याः ।
स्मृतयश्च ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इत्याद्याः ।