न च पारमार्थिकत्वावछिन्नप्रतियोगिताकयाः प्रातिभासिकपा-
रमार्थिकरजताभावयपि सखे प्रतिभासिकरजताभाव एव बाध-
वुद्ध्याऽवधार्यत इयत्र किं नियामकमिति वाच्यम् ! प्रतिभासिके
प्रतिपत्तौ निषधप्रतियोगित्वरूपाध्यत्वानुपपत्तेः । पारमार्थिकस्यैव
बाध्यतापच्या मिथ्यात्वापत्तेः । आत्मानि नेति नेतीति श्रौतप्रपञ्च-
निषेधानुपपत्तेश्च नियामकत्वात् । न ह्यात्मनि प्रतिभासप्रपञ्चतिरि-
क्तः पारमार्थिकः प्रपञ्चोऽस्ति येनाऽऽध्यासिकतत्सत्वेऽपि ततोऽन्यं
पारमार्थिकमादाय त्रैकालिकानिषेधोपपत्तिः स्यात् । तस्मादाध्या-
सिकत्वेन तत्र सत एवं पारमार्थिकत्वेनासत्वं श्रुत्याऽवबुद्ध्यते
इत्यनिच्छताऽपि स्वीकार्यम् ।
न च नेदं रजतमिति बुद्धेः पारमार्थिकत्वावच्छिन्नप्रतिभासिक रजताभावविषयत्वेऽपि प्रतियोगितावच्छेदकपारमार्थिकत्वावच्छि- न्नरजतरूपप्रतियोगिज्ञानस्य हेतुतयावश्यापेक्षणे तदनुरोधेन प्रा- तिभासिकरजते पारमार्थिकत्वसत्तापत्तौ तदवच्छिन्नस्यापि तत्र सत्त्वात्पुनर्निषेधानुपपत्तिरिति युक्तम् । यत्राभावबुद्धौ प्रतियोगिताव- च्छेदकविशिष्टः प्रतियोगी विषयस्तत्रैव तद्विशिष्टप्रतियोग्युपनाय- कत्वेन प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य हेतुत्वात् । नेदं रजतमिति बुद्धेश्च प्रतियोगिनि प्रतियोगितावच्छेदकपारमार्थि- कत्ववैशिष्ट्याविषयत्वात् । तादृश्या अपि तस्याः पारमार्थिकत्वा- वच्छिन्नप्रतिभासिकाभावाविषयत्वं प्रतिभासिकत्वावच्छिन्नप्राति- भासिकामावरूपैकविषयत्वासम्भवेऽभावान्तरविषयत्वनियमेन पा- रिशेड्यात् ।।
ननु शुक्तीदमंशे प्रातिभासिकतया रजतसत्त्वं पारमार्थिकतया तु तस्यैव त्रैकाल्याभाव इति व्यवस्थायाः किङ्कल्पकमिति चैन । इदं रजत नेदं रजतामिति संविह्वयानुपपत्तिरेव । न चानयोः एक- संविदपह्नव एव ज्यायान् न तु तदनुरोधेनालौकिककल्पनामिति