नन्विह किमनात्मज्ञानं पक्ष उतात्गज्ञानं नाद्यः । अनात्माव-
रकस्याज्ञानस्याङ्गीकारण तत्साधने वाधान् । न द्वितीयः । अना-
त्मज्ञाने व्यभिचारात् । अप्रकाशितर्थप्रकाशकत्वं च किमप्रकाशि-
तार्थप्रकाशकर्तृत्व उत तत्करणन्वं । नोभो असिद्धिसाधनवैकल्य
दोषप्रभङ्गात् । अथ प्रकाशस्यातद्रूपतया प्रमाणज्ञानस्य तत्कतृत्व
तत्कःणत्वयोरसम्भवात् प्रदीपप्रकाशस्थलेऽर्थप्रकाशस्य प्रमात्म
कत्वेन स्वं प्रति स्वस्थ कर्तृकरणत्वयोरसम्भवात् तस्माद्यत्किञ्चि-
दतदिति चत् ।।
मैवं, धारावाहिकभन्नस्यानात्मज्ञानस्य पक्षत्वात् । नच बाधा- पत्तिः । घटाद्यवच्छिन्नं चैतन्य प्रत्यक्षादिविषयत्वेनोपेयते तत्त्वज्ञाना- वृतमिति वाधासम्भवात् । नच हेतोर्दुर्निरूपत्वं प्रकाशशब्देन त- ज्जन्य व्यवहारो लक्ष्यते ततश्चाप्रकाशितार्थव्यवहार हेतुत्त्वादिति हेतुनिरूपणात् तस्य प्रमाणज्ञानप्रभयोरनुगतत्वेन नासिद्धसाध- नवैकल्यम् ।
अत्र केचिदाहुः । यथाश्रुतमिदमनुमानमनुपपन्नं विवादगो- चरापन्नमति पक्षविशेषणस्य व्यर्थत्वात् । नच धारावाहिकज्ञाने वाधवारणार्थं तत् । तस्याप्युत्तरकालावच्छिन्नाज्ञातार्थज्ञापकत्वेनो- क्तसाध्यसवात् किञ्च साध्ये प्रागभावव्यतिरिक्तपदमपि व्यर्थं प्रतियोगिनः प्रागभावनिवृत्तिरूपत्वेन ज्ञानप्रागभावस्य ज्ञानानव- र्यत्वासम्भवात् । अन्ततः स्वनिवर्त्त्यपूर्वकमित्येवास्तु तत इतर- त्सर्वं व्यर्थं । किञ्च हेतौ किं प्रकाशवत्वं नाम प्रकाशकर्तृत्व वा व्यवहारहेतुत्वं वा तमोनिवर्तकत्वं वा नाद्यः । त्वसिद्धेः । ज्ञानस्यैव प्रकाशरूपत्वेन स्त्रस्य सम्पति कर्तृत्वासम्भवात् । न द्वितीयः । उपेक्षणीयार्थज्ञानस्य व्यवहाराहेतुत्वेन भेगासिद्धेः । नापि तृतीयः । अप्रकाशितार्थेति विशेषणवैयर्थ्यात् ।
तस्मादज्ञानसाधकमनुमानद्वयं बोध्यं । प्रमाणज्ञाने स्वविषया-