सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'३६७
मनोनिरूपणम् ।


दिप्रज्ञा सविषया एक भूना मन्यात्ररूपप्रज्ञात्मिकेयम् । अतएव वि- शषविज्ञानायासाभावादानन्दमय आनन्दप्रायः नानन्द एव दुःख : बीजस्य विद्यमानत्वात् । अनन्तभुक् स्वरूपानन्दोऽनुभूयतेऽनेन स आनन्द भुक् । एषोऽस्य परमानन्द इनि श्रुत्यन्तरात् ।

 सन्मात्ररूपेण सर्वस्यापि विद्यमानत्वात्तदात्मना सर्वं जानाती- त्याह-प्राज्ञ इति । अतएव एष सर्वेश्वर इत्याद्यपि सङ्गछते । ननु विज्ञानस्वभाव एवात्मा चेत्कथ सता सम्पन्नोऽपि तदा वाह्यं न- पश्येदित्यत आह ! यत् यत्र सुप्ते वै इति निश्चये तचैतन्यं न प- श्यति पश्य चैतत् तत्र सुषुप्ते पश्यन्नेव न पश्यति । तथाच यत्तत्र सु- चुप्त न पश्यतीति जानीषे तन्न तथा गृह्णीयाः कस्मात्पश्यन्नेव भव- ति तत्रेत्यर्थः । नच करणानां व्यापृतन्वाभावात्कथमेवं न विजा- नीयाम् । दृष्टेद्रष्टुः दृष्टिरूपद्रष्टुर्विपरिलोपाभावात्तथाचापरिलुप्तदृ- ष्ट्यास्वयं ज्योतिःस्वभावया सुषुप्ते पश्यन्नेव भवति ।

 कथं तर्हि न पश्यतीति चेदुच्यते नतु तदस्ति किन्तद्द्वीतीयं साभासमन्तःकरणं प्रमातृ ततोऽन्यच्चक्षुरादि प्रमाणं विभक्तं रू- पादि प्रमेयं तत्सर्वं जाग्रत्स्वप्नयोरविद्याप्रतिपन्नं सुषुप्तिकाले ना- स्ति पृथगिति शेषः । यत्पश्येत् । नचैवं निर्विषयमेव ज्ञाने: स्यात् । तथाच पश्यन्नित्यनुपपन्नामति वाच्यम् । सन्मात्ररूपेण स्वप्नदर्शन विरोध्यज्ञानावस्थाभासकत्वन कर्तृप्रययोपपत्तः ।

 नन्वेवं द्वितीयप्रतियोगिलाभाय तत इतिपदस्य सार्थकत्वेऽपि द्वितीयमितिपदेनैव प्रमाणप्रमेययोर्लाभसम्भवादन्यदित्यादि व्यर्थं द्वितीयमित्यस्यैव मुख्यप्रधानत्वावगमविरोधचेति चैन्न । 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदित्यादिश्रुत्या ततोऽन्यदित्यस्यै- व मुख्य प्रधानत्वावगमात् । यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यतीत्यादिश्रुत्यविरोधार्य तादृशनियमे ता- पर्याभावाञ्च । सत्कार्यवादे सूक्ष्मोपाधेः सत्वाद्द्वितीयाभावो न स-