स्यादेतत्---अमाधारणपारागिनो यथा महद-
हङ्कारौ नेन्द्रियम्. एवम्मनो ऽप्यसाधारणच्यापारयोगि
नेन्द्रियं भवितुमर्हतीत्यत आह-"इन्द्रियं च" इति ।
कुतः?–“साधर्म्यात्” इन्द्रियान्तरैः सात्विकाहङ्कारो-
अत एवेन्द्रियं यद्यगत्वाऽनागतमर्थं गृह्णीयात्किमस्य कुड्यकटाद्या- वरणमपकुयाद्येन तदावृतं न गृह्णीयात् । गत तु स्पर्शवता प्र- सादरहितन सैवास्य प्रतिबाध्येति न प्राप्नोति विषयमप्राप्तं च न गृह्णातीति स्वोक्तिरपि सङ्गच्छते अन्यथा प्रयोगस्तु इत्यादिस्वो क्तानुरोधेन प्रकृया चक्षुः श्रोत्रे इत्येव ब्रूयान्नतु इन्द्रियं यदीति सामान्यरूपेण ।।
दिग्देशव्यपदेशाच्छाखाचन्द्रमसोस्तुल्यकालग्रहणाच चक्षुरेव प्राप्यकारीति नवीनमतमपि परास्तम् । नच चक्षुषो बहिर्निर्गमना- भावे उक्तरीत्या कुड्यादेः प्रतिबन्धकत्वानुपपत्तिरिति वाच्यम् । बहिर्निर्गमनेऽपि उक्तपरिमाणविकल्पदिग्देशव्यपदेशदोषेण गमना- गमनयोर्विरुद्धत्वेन चानिर्वचनीयतापत्तेः । तथाच वेदान्तन एव विजयेन्नित्यर्थः । विषयसम्बद्धालोकद्वारैव चक्षुषो विषयसम्ब- न्धाङ्गीकारे आलोकगतिनिरोधे च कुड्यकटादेः प्रतिबन्धकत्व- सम्भवाच्चालं प्रसङ्गागतेन ।
तथाच निर्विकल्पकं ज्ञान प्रथमत इन्दियेण, पश्चान्मनसा सवि- कल्पकं ज्ञानं जायते इति सिद्धमिति । ननु मनो नेन्द्रियमसाधा- रणव्यापारवत्वात् । महदहङ्कारवत् । असाधारणव्यापारश्च संयो- गातिरिक्तपरिणामविशषः । यदीदमिन्द्रियं स्याञ्चक्षुरादिवषय- संयोगि स्यादित्यभिप्रायेणाशङ्कते--स्यादैतदिति । मन इन्द्रियं तत्साधर्म्याञ्चक्षुरादिवत्तत्साधर्म्यं च सात्विकाहंकारोपादानत्वमि- त्यभिप्रायेण समाधत्ते---साधम्र्यादिति । महदहङ्कारयोस्तु नेन्द्रि- यत्वं तथात्वाभावादित्यर्थः ।