च्च । न तृतीयोऽनभ्युपगमात् । कुड्यादिव्यवहितस्यापि प्रत्यक्ष-
त्वप्रसङ्गाच्च । अतएव नासम्वद्धपक्षोऽपि । अन्यत्वप्रसङ्गाच्च ।
अत्राव्यभिचारिज्ञान मात्रस्य निवेशे प्रयश्चप्रमाणेऽसम्भवः । तेषां भ्रमादिजनकत्वात् । इन्द्रियार्थसन्निकर्षजन्यज्ञानसामान्य- स्य निवेशैऽव्यभिचारिपदवैयर्थ्यम् ।
किञ्च चक्षुषो बहिर्गमनेऽपि यद्दशावच्छेदेन चक्षुः संयोगस्तद्दे- शावच्छेदेनैव तदुपलम्भो वाध्योऽन्यथा पृष्ठदशावच्छेदनालोकसं- युक्तोऽपि अग्रे चक्षुस्संयुक्तः घटस्तद्दशावछेदनोपलभ्येत । एवं य- देशावच्छेदनालोकर्मयोगस्तद्देशावच्छेदेनैव चक्षुः संयोगाऽन्यथाऽ. भिमुखदशावच्छेदेनालोकसंयोगाभावेऽपि धटचाक्षुषापत्तेस्तथासति अणुपरिमाणस्योक्तमध्यमपारिमाणस्य वा चक्षुषो यावन्पात्रं सं- योगव्याप्तिस्तावन्मात्रमुपलभ्येत वानगोष्ट्रादि च नैवोपलभ्येत उ- पलभ्यते च । वानरोष्ट्रादिमूर्त्तयोरेकादेशवच्छेदनावस्थानासम्भवे- नोपलम्भाभावप्रसङ्गश्च ।
एतेन यथा वर्त्तिदेशे पिण्डितमपि तेजः प्रसार्य्य प्रामादोदरं व्याप्नोति तत्कस्य हेतोः पृथ्वग्रत्वात् । विरोधश्चानिविडयोरेव भू- र्त्तयोरन्यथा पटमहारजनयोर्घटोदकयोश्चाग्रहः स्यादिति परास्तम् । अत्यल्पस्याग्रताया अप्यत्यल्पत्वात् । अनिबिडद्रव्यान्तर्गतच्छि- द्रानन्तरितावयवावच्छेदेनैव चक्षुःसन्निकर्षसम्भवाच्च । चक्षुषों बहिर्निर्गमे सर्वं सन्निकृष्टमेव स्यात् तथा सति संनिकृष्टविप्रकृष्ट दिग्देशव्यवहारो न स्यात् । सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसो- रतुल्यकालग्रहणप्रभङ्गश्च । यद्गतिमद्भवति तत्तां गतिं नैरन्तर्येण कुवेदपि सनिकृष्टमाशु प्राप्नोति न विप्रकृष्टेन तुल्यकालङ्किन्तु वि- प्रकृष्टं चिरेणेति ।
यत्तु | द्योतकरादयः । यत्रेन्द्रियं शरीरं चार्थेन सम्बध्यते- तत्र दिग्देशव्यवहारो न भवति दूरान्तिकानुविधानं वा । यदी त्वि-