मादाय देवोत्पत्तिर्गौणी बोध्या । ननु स ईक्षतेमानु लोकान् लेाक-
पालानुसृजा इति सोऽद्न्य एव पुरुषं समुद्धृत्यामूर्छयत्तमभ्यतप-
त्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाग्वाचोऽग्निर्नासिके
निरभिद्येतां नासिकाभ्यां प्राणः । प्राणाद्वायुराक्षिणी निरभेद्येता-
मक्षिभ्यां चक्षुः चक्षुषः आदित्यः । कर्णौ निरभिद्येतां कर्णभ्यां श्रोत्रं
श्रोत्राद्दिशः । त्वङ्भिरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवन-
स्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभि-
द्यत नाभ्या अपानोऽपानान्मृत्युः । शिश्नं निरभिद्यत शिश्नाद्रेतो रे-
तस आपः । चक्षुष सूर्योऽजायत इतादिश्रुतिः अधिष्ठानेभ्यः करणा-
नि तेभ्यो देवा इति प्रतिपादनपरा विरुध्येत ।
श्रुतिस्तु स जगत्क। ईक्षत ईक्षणं कृतवान् अत्राडागमाभावः छांदसः । एकस्याखण्डस्य चेतनस्यापि सृष्टेः प्रागकरणत्वादमुख्य- मेवेक्षणं वक्तव्यं तच्चाचेजनेऽपि प्रधाने संभवतीत्यर्थः। यत्तु ‘अपाणिपादों जवनो गृहीता पश्यत्यचक्षुःसशृणोत्यकर्णः । स वेत्ति वेद्यं नच तस्यास्ति वेत्ता तमाहुरग्य्रं पुरुषं महान्त’ मितिमन्त्रवर्णा- करणस्यापि स्वाभाविकनित्यचैतन्यस्येक्षणसम्भवात् । नच चै- तन्यस्य नित्यस्य कथं कदाचित्केक्षणमिति वाच्यं । प्रागुत्पत्तेः प्रा- णिकर्मप्रयोज्यसृज्याकाराविद्यावृत्तौ चैतन्यप्रतिविम्बरूपस्येक्षणस्य कदाचित्कत्वसम्भवात् । नच तस्यापि कार्यत्वादीक्षणान्तरापेक्षाया मनवस्थापत्तिरिति वाच्यं । तस्यादिकार्यत्वेन स्वपरानर्वाइक- त्वाङ्गीकारात् ।
यद्वा प्राणिकर्मचशात्सृष्टिकालेऽभिव्यक्त्युन्मुखीभूतानभिव्यक्त नामरूपावाच्छन्नसत्स्वरूपचैतन्यरूपेक्षणस्यौमुख्यकादाचित्कत्वेन कादाचित्कत्वसम्भवादिति तन्न । अपादो जवन इति यथा पद्भ्याँ कश्चन जवनोऽयन्तु व्यापकत्वज्जवन इव । एवंगृहीतेत्यादीन्यपि व्याख्येयानि तथाचेक्षणस्प गौणत्वानिवृत्तेरलं प्रसङ्गागतेन ।