कदेशस्यापि दृष्टान्तताया उभयवादिसंमतत्वात् । नचाभौतिक- त्वानुमाने हस्तपादादिकर्मेन्द्रियवन्नासापुटादिरूपाणां धीन्द्रियाणाम- पि शरीरावयवत्वेन भौतिकत्वावधारणाद्वाध इति वाच्यम् । ना- सापुटाद्यतिरिक्तानां ज्ञानसाधनानां साधितत्वात् ।।
तथाहि-गन्धोपलब्धिः रसायुपलब्ध्यजनकशरीरसंयोगि- करणजन्या जन्यसाक्षात्कारत्वात् । रूपप्रत्यक्षवत् । अत्रादिपदं स्पर्श- सङ्ग्रहाय । विशिष्टे व्यर्थविशेषणत्वादन्यतरघटितं च साध्यद्वयमुपादे- यं । रूपघटितं च साध्यं नोपादेयमन्यथा दृष्टान्तस्य साध्यवैक- ल्यापत्तेः । नचैवं चक्षुषाऽर्थांतरं । जात्यन्धस्य गन्धसाक्षात्कारानुप- पत्तेः बाधस्फुरणात् । मनसा सिद्धसाधनवारणायाजनकान्तं । गन्धेन सिद्धसाधनवारणाय संयोगीति । नचैवं शरीरपदं व्यर्थं । उद्देश्यताप्रतीत्यर्थन्तदुपादानात् । अतएव करणपदमपि । नच घ्राणे- न्द्रियाधारनासापुटेन सिद्धसाधनवारणाय शरीरपदन्तस्य तद्वयव त्वेन तदसंयुक्तत्वाद्वारणमिति वाच्यम् । तस्य स्वीयरसाद्युपलब्धि- जनकत्वेनाद्यविशेषणनिरस्तत्वात् । नच परकीयत्वविशेषणं गौ- रवात् । नच गोलकस्य शरीरसंयुक्तत्वात्तदधिष्ठानस्यान्यस्य चा- भावाद् दृष्टान्तासिद्धिः । तत्रानुमानेन गोलकातिरिक्तकरणसिद्धेः ।
तथाहि अन्धकारस्थं मानुषगोलकं तेजोवृत्तिघटसाक्षात्का- कारणसंयोगाधिकरणम् । रूपवत्वे सति घटसाक्षात्कारकारण- त्वात घटवदिति । बाह्यालोकेनार्थन्तरवारणायान्धकारस्थमिति । सर्वजनीनमार्जरादिनयनेन्द्रियातिरिक्तदण्डायमानतेजसार्थान्तरवा- रणाय मानुषेति । आकाशादिनाथन्तरवारणाय तेजः पदं । सन्निक व्यभिचारवारणाय संत्यन्तं । घटादौ व्यभिचारवारणाय घटपदं । अन्धकारोत्पन्नविनष्ठे त्वचा साक्षात्कृते घटे न व्याभि- चारश्चाक्षुषत्वेन साक्षात्कारस्य विशेषणात् । कारणत्वं चात्र फ- लोपधानंरूपमतो नोक्तदोषताद्वस्थ्यम् । तदप्यसाधारण्येन विव-