वेऽपि व्याप्त्यनर्ङ्गाकारे वायावपि पार्थिवस्पर्शस्यैव प्रतीतिप्रसङ्गात् ।
पार्थिवस्पर्शस्योद्भूतरूपगन्धव्याप्यत्वाङ्गीकारे तु न क्षतिः ।
ननु चक्षुस्तैजसं स्पर्शाऽव्यञ्जकत्वे सति परकीयरूपव्यञ्जकद्र- व्यत्वात् । प्रभावत् । अत्र जलेऽम्लद्रव्ये च व्यभिचारवारणाय स- त्यन्ते । तत्रत्यत्रसरेणौ व्यभिचारवारणाय विशेष्ये परकीयेति । तथा- चेत्यनेन सत्प्रतिपक्षतेति चेन्न । इदं यदि तैजसं स्यात्तदोभूतरूपो- ष्णस्पर्शान्यतरवत्स्यादित्यादिप्रतिकूलतर्ग्रस्तत्वेन तुल्यबलत्वा- भावात् । अत्र रूपग्रहणं चान्द्रकरसङ्ग्रहार्थं । नचाऽऽपाचे इष्टापत्या दुष्टोऽयन्तर्क इति । परस्परभिन्नदेशावच्छिन्नद्रव्यय रूपग्रहणेन तत्र- महत्त्वसिद्ध्या तस्य प्रत्यक्षत्वापत्तेः । उपाध्यभावेऽपि व्याप्त्यनङ्गी- कारे चक्षुषो जलजातीयत्वकल्पनापत्तेः । जलस्पर्शस्योद्भूतरूपशी- तस्पर्शदिव्याप्यत्वाङ्गीकारे तु न क्षतिः ।
ननु त्वगिन्द्रियं वायवीय स्पर्धेतरगुणाव्यञ्जकत्वे सति स्पर्श व्यञ्जकद्रव्यत्वात् । स्वेदशैत्यस्पर्शपञ्चकव्यजनुवायुवत् इति अत्रासिद्धिवारणाय गुणेति । तदेव वारणाय स्पतरेति । सन्निकर्षे व्यभिचारवारणार्थ दुव्यत्वेति । तथाचेत्यनेन सत्प्रतिपक्षतेति चेत् ।
न। इदं यदि वायवीयं स्यात्तदोद्भूतस्पर्शधृतिकम्पव्यापारवत्स्या- त्प्रसिद्धवायुवदित्यादिप्रतिकूलतर्कग्रस्तत्वेन तुल्यबळत्वाभावात् । नचापाद्ये इष्टापत्तिः । परस्परभिन्नदेशावच्छिन्नद्रव्ययोः स्पर्शग्राह- कत्वेन महत्त्वसिद्ध्या तत्स्पर्शस्य प्रत्यक्षत्वापत्तेः । नच तत्रानुद्- भूतस्पर्शाङ्गीकारात्प्रत्यक्षाभावोपपत्त्या तर्केऽप्रयोजकतापत्तिरिति चाच्यम् । एवं सति श्रोत्रेन्द्रियं यदि घ्राणं स्यात्तदा गन्धोपलम्भक स्यादिति तर्केऽपि गन्धोपलम्भकलक्षणव्यापकोभावेषन[१] ग्राहक द्रव्यत्वात् । लालावदित्यत्र सत्यन्तेन शर्करामनादौ न व्यभि-
१ अत्रत्यः पाठो मूलभूतपुस्तकेऽपि खण्डित इति कृत्वा यथा-
स्थित एव स्थापित इति बोध्यम् ।
- ↑ १