काम्यम्-इच्छानभिघातः, यती भूभावुन्मज्जति निमज्ज-
ति च यथोदके। (७) वशित्वम्-यतो भूतभौतिकं वशी-
भवत्यवश्यम् । ईशितृत्वम्-यतो भुतभौतिकानां प्रभवः
स्थितिलयानामीष्टे।(८)यञ्च कामावसायित्वम्-सा सत्य:
सङ्कल्पता, येन यथाऽस्य सङ्कल्पो भवति भूतेषुःतथैव
भूतानि भवन्ति । अन्येषां मनुष्याणां निश्चयाः निश्चेत-
व्यमनुविधीयन्ते, योगिनस्तु निश्चतव्याः पदार्थाः नि-
श्चयम् । इति चत्वारः सात्त्विका बुद्धिधर्माः ।
तामसास्तु तद्विपरीता बुद्धिधर्माः । अधर्माज्ञाना-
वैराग्यानैश्वर्याभिधानाश्चत्वार इत्यर्थः ।। २३ ।।
अहङ्कारस्य लक्षणमाह-
कारो भवतीत्यर्थः । वशित्वापेक्षयेशितृत्वस्य भेदमाह । प्रभवेति । उत्पत्तिस्थितिलयकर्तृत्वमित्यर्थः । व्यूहनमेकत्रकरणमिति केचित् । अर्थाव्यभिचारत्वरूपसत्यत्वं सङ्कल्पस्याह-यथास्येति ।।
ननु सङ्कल्पहेतुज्ञानस्यार्थव्यभिचारित्वेन कार्यस्यार्थव्यभि: चारित्वमनुपपन्नमित्याशङ्क्या तत्ज्ञानस्याप्यर्थाव्यभिचारत्वान्मैव- मित्याहा न्येषामिति । अन्येषामस्मद्विधानां निश्चया ज्ञानानि निश्चेतन्यं स्वविषयमनुविधीयन्ते विषयव्यापकानि भवन्तीत्यर्थः । योगिनस्तु इति । निश्चयमित्यत्रानुवर्तन्ते इतिशेषः । तथा च तेषां ज्ञानान्यर्थाव्यभिचारीण्यस्मदादीनां तु क्वचिदर्थव्यभिचारी- णीत्यर्थः ॥ ४ ॥ तद्विपरीतनिरूपणे तज्ज्ञानस्य हेतुत्वादुक्ताननुवं- दति सात्विको इति ।। २३ ।।
प्रकृतेर्महानित्याद्युक्तोदेश्यक्रमेणोपजीवकत्वसंगत्याहंकारलक्ष- णपरतयाप्यार्यामवतारयति-अहंकारस्येति । अभिमानस्याप्र- सिद्धतयाहंकारलक्षणत्वासम्भवमाशङ्क्य बुद्धिपूर्वप्रवृतिहेतुतया सि- द्धस्यास्मत्प्रत्वयस्य सर्वजनप्रसिद्धत्वान्मैवामित्याह-यत्खल्विति ।