तथा तव मते तादृशेश्वरज्ञानस्य पुत्रात्मनि समवाया भाषेन दोष-
सत्वेऽपि मम मते तादृशज्ञानविषयान्नसत्वेनोक्तदोषाभावाञ्च ।।
नन्वेवमपि क्रीततन्तुस्वर्णपिण्डजन्यपटकुण्डलादौ वैशेषिकनये
पूर्वघटनाशात्पाकरक्ते घटे नैयायिकनये महापटध्वंसजन्यखण्डपटे क्रीतदुग्धजन्ये दधि चोभयमतेऽपि दुग्धद्व्याणुकपर्यन्तं नाशाङ्गीकार- तत्र स्वत्वं न स्यात्क्रयाद्यभावादिति चेन्न । कार्यकारणयोरभेदात् । यथाचा भेदस्तथोक्तं पुरस्तात् । घटादिस्थलहलेख्यचित्राणां नि- वृत्यापत्त्या घटाद्युपरिस्थितशरावादीनां च पतनापत्त्या पाकादि- स्थले धर्मभेदासम्भाञ्च । तादृशस्वत्वे दोषाभावसहकृतं क्रयादि- ज्ञानसहकृतं वा प्रयक्ष प्रमाणं । तेन क्वचित्स्त्रत्वाश्रयग्रहेऽपि दो- षादिना संशयसत्वेऽपि नक्षतिरिति । केचित् तत्स्वं ममस्वं ब्रह्म- स्वमित्याद्यनुगतः शब्दप्रयोगोऽनुगतधर्मनिमित्तकोऽनुगतशब्दप्र- योगत्वाद्गोशब्दप्रयोगवदित्याद्यनुमानमेवेत्याहुः । अक्षाद्यनुगतश- ब्दप्रयोगे व्यभिचारात् । अन्यथाऽक्षादिपदवाच्ये ऽनुगतधर्म स्वीका- रापत्तेः । अतोऽनुमाना सम्भवात् "परस्वं नादर्दीत" "स्वंदद्यादि" त्याद्या- गम एव निषेधप्रतियोगितावच्छेदकघटकत्वेन त्यागविशेष्यताव- च्छेदकत्वेन च स्वत्वस्य' शब्द प्रमितजनकत्वात्स्वत्वे प्रमाणमिति दीधितिकारानुयायिनः ।
प्रमाणान्तरेणबताते शक्तिग्रहासम्भवे तच्छब्दबोधासम्भवेन तजनकत्वेन प्रमाणत्वासम्भवाः । "अतः तरति शोकमात्मवि"- दित्यत्र श्रुतस्य शोकशब्दवाच्यस्य बन्धजातस्यात्मज्ञाननिवर्य- त्वानुपपत्या बन्धजातस्य मिथ्यात्वकल्पने श्रुत्यार्थापत्तिविधया तच्छ्रुति वदयमागमः प्रभाणमुत श्रुत्यार्थपत्तिरित्यपरे ।
अलं प्रसङ्गागतेने प्रकृतमनुसरामः । स्वीयस्य वैधीयत्वापादानं दानं । योगदानादीत्यादिपदेन स्नानशौचादि सङ्ग्रहः । अभ्युदयः स्वर्य- पशुपुत्रादिः । अथङ्गेति, यमनियमासनप्राणायामप्रत्या-
--