धवोधः, शास्त्रात्तथाविधानिषेधवोधे च सति शास्त्रबोधिततथावि-
धनिषेधपतियोगिकत्वरूपोपदर्शितनिषिद्धत्वादिघटिनोपदार्शीतस्वत्व-
ज्ञानमित्यन्योन्याश्रय इति भावः । इदमुपलक्षणं योग्यत्वस्य नि-
वेचनाशक्यतयापि तद्धटितलक्षणमनुपपन्नमत्यपि द्रष्टव्यम् ।
ननु सर्वमिदं संभवति स्वत्वे प्रमाणसद्भावे, तदेव तु न पश्या- में इत्यत आह-प्रमाणं चेत्यादि ‘परस्वं नाददीत’ ‘स्वं दद्या’दिति शास्त्रस्य निषेधप्रतियोगितावच्छेदकघटकत्वेन त्यागविशेष्यतावच्छे- दकत्वेन च स्वत्वस्य शाब्दप्रमितिजनकत्वात्सत्वे प्रमाणत्वमित्य- र्थः । तस्य च निसत्वे प्रतिग्रहादिवैयर्थ्यमत आह-तञ्चेति । दत्त- द्रव्यस्य वैधः स्वीकारः प्रतिग्रहः । स्वीकारचे स्वत्वजनकः संक- विशेषः । उपादानं-अस्वामिकारण्यस्थकुशकाशादेरानयनं । मूल्यदानपुरस्सरं द्रव्यस्वीकारः क्रयः । दानादिभिश्चैयादिना- विक्रयादिः ।
ननु समुदायं विना प्रत्येकस्मात्कायोत्पत्तेः परस्परब्यभिचा- राञ्च कथं हेतुताग्रहः । एवं स्वत्वनाशं प्रति दानादीनामपीत्यत आई-कारणानामिति । वस्त्वादिकं प्रति एकशक्तिमत्वेन हे- तुत्वाभ्युपगमादित्यर्थः । नैयायिकनये शक्तेरतिरिक्ताया अभावा- त्सम्बन्धभेदेन कारणताभेदादेकशक्तिकल्पनासम्भवाच्चाह-का- र्याणामिति । तत्तद्विजातीयस्वत्वं प्रति प्रत्येकं प्रतिग्रहादीनां तत्त- द्विजातीयस्वत्वनाशं प्रति प्रत्येकं दानादीनां हेतुत्वाभ्युपगमादि- त्यर्थ इति ।
तन्न । यदि क्रयत्वादयो न ज्ञाननिष्ठा इच्छानिष्ठा वा जा- तिविशेषाः किन्तु मूल्यदानपुरस्सरं द्रव्यस्वीकारः क्रयः, द- तद्रव्यस्य वैधस्वीकारः प्रतिग्रह इत्यादिरूपक्रयादेः स्वत्वघटित- त्वात् क्रयाद्यन्यतमत्वेनानुगमासंभवेऽपि शास्त्राविरुद्धावनियोगो- पायत्वेन क्रयाद्युपायानामननुगमेऽप्येतादृशोपायविषयत्वरूपस्वत्व-