बिम्बितत्वरूपभुक्तत्वस्य नियमहेत्वभावात् ॥
अप्रमाणिकान्धपरम्पराकल्पनाऽसम्भवाच्च ।
यदप्ययमेतस्माद्भिन्नो विरुद्धधमाश्रयत्वादिति । तदपि न । विरुद्धत्वासिद्धेः । तथाहि प्रयत्नादीनां विरुद्धत्वं स्वसमानकालीन स्वाभावतद्व्याप्यसहानवस्थितत्वरूपं वाच्यम् । तच्च न सम्भवति स्वचरणलग्नकण्टकोद्धरणप्रयोजकव्यापारवत्स्वपाण्यवच्छेदेन व र्त्तमानस्य प्रयत्नस्यान्यवच्छेदनोक्तस्वभावेन सहावस्थितत्वात् । एतादृश बिरोधस्य चाधिकरणभेदनियमोपलम्भाधीनोपलम्भकत्वे- नान्यस्य चाधिकरणभेद ग्राइकप्रमाणासिद्ध्या सम्भवाच्च । चैत्रो जातो न मैत्र इयादिव्यवस्था न स्यादित्याशङ्कात् देहात्मवादि- नां भ्रान्तानामेव चैत्रादिशब्दानां शरीरविशेषपरत्वात् ।
एतेनान्धादौ चैकस्मिन्सर्वे एवान्धादयो विचित्ते चैकस्मिन् सर्वे विचित्ताः स्युः । एकत्र शरीरे प्रयत्न स एव सर्वशरीरेषु एक इति सर्व प्रयतेत । ततश्च सर्वाणि युगपच्चालयेत् । त्रैगुण्यविपर्ययस्तेषु तेषु सत्वनिकायेषु न भवेदिति परास्तम् । चक्षुष्मद्गौलकद्वय शुन्यत्वं अन्धत्वं, चक्षुष्मद्गोलकद्वयशून्यत्वे सति चक्षुष्मत्वं काणत्वं, यथा संस्थानशुन्यकर्णशष्कुलीकत्वं बधिरत्वं, पादुवि- कारवत्वं खञ्जत्वमित्यन्धत्वादयो धमाँ अन्तराश्च प्रयत्नादयो धर्माः यद्यच्छरीरावच्छेदेन सम्भवन्ति तत्तच्छरीरावछेदेनैव प- लम्भप्रवृत्यादिसम्भवात् । नचैवमप्यस्मच्छरीरोवच्छेदेन जायमाने सुखादावहं सुखात्याद्यनुभवादितरशरीरावच्छेदेन जायमानेऽपि सुखादावहं सुखीत्याद्यनुभवप्रसङ्ग इति वाच्यम् । शिर आदिगते जन्मान्तरायशरीरगते वा सुखादौ पादाद्यवछिन्नस्य वैतदेहाव- छिन्नस्य वोपाधिभेदादभिमानाभावोपपत्तेः ।।
नच बालादि शरीरभेदेऽप्यनुसन्धानदर्शनान्न तत्प्रयोजकमिति वाच्यम् । तत्रापि शरीरप्रत्यभिज्ञादर्शनात् । नच सा भ्रम इति