सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


तस्मादनवस्थाभिया ऽस्यासंघातत्वमिच्छता ऽत्रि- गुणत्वं अविवेकित्वं विषयत्वं असामान्यत्वं चेतनत्वं अप्रसवधर्मित्वञ्चाभ्युपेयम् । त्रिगुणत्वादयो हि धमाः सहतत्वेन व्याप्ताः । तत्संहतत्वमस्मिन् परे व्यावर्तमानं त्रैगुण्यादि व्यावर्तयति, ब्राह्मणत्वमिव व्यावतमानं क-




च्छेदप्रसङ्ग इति परास्तम् । अव्यापकस्यानुमित्यनङ्गीकारात् । अत एवं प्रमाणवलादनवस्थापीष्यत इति चेदत्राच्यते । परो यः सं- घातः सोऽचेतनश्चतनो वा नाद्योऽचेतनस्याचेतनार्थवादर्शनात् । न द्वितीयः संघातस्याचेतनत्वव्याप्यत्वेन चेतनसंघातशरीरादर्मृतेषु व्यभिचारेण चेतनत्वासम्भवात् ।

 उपसंहरन्नार्यागतान्त्रिगुणादिविपर्ययादिहेतुं व्याचष्टे-तरमा- दिति । तस्मादनुमानमात्रलोपप्रसङ्गभिया पारायैमावस्यैव संघातत्वव्यापकत्वात् । सर्वस्य त्रिगुणत्वात् । त्रिगुणादीत्य- त्रादिपदं व्यर्थमियाशङ्कां धर्मपरत्वेन परिहरन् पूर्वहेतुनाऽसंघा- तत्वसिद्ध्या त्रिगुणादिविपर्ययहेतुं व्युत्पादयति त्रिगुणत्वाद्य इति । आदिपदार्थमाह-अविवेकत्वमित्यादि । तत्र दृष्टान्त- माह-ब्राह्मणत्वमिवेति । कठत्वादि । आदिपदेन तलवकारत्वा- दिकं ग्राह्यम् । कठत्वादिकञ्च कठादिशाखाध्येतृत्वं । उत्तरहेतुमुपसं- हरति तस्मादाचार्येणेति । यस्मात्रिगुणत्वादयो धर्माः संहतत्वेन व्याप्तास्तस्मादित्यर्थः । आत्माऽसंहतस्त्रिगुणत्वादिविपर्ययाद्व्यतिरे- केऽव्यक्तवदित्यर्थः ।

 वस्तुतस्तु । असंघातत्वसिद्धिं विनापि त्रिगुणादिविपर्ययस्स- म्भवति । तथाहि त्रिगुणत्वादिधर्माः नद्रष्ट्रधर्मा ग्राह्यत्वात् चक्षु- रादिग्राह्यरूपादिवत् । एवं परोऽव्यक्तीतिरिक्तस्तद्विरुद्धधर्माश्रयत्वा- दिति पर्यवसितोऽर्थ इति ।।

 यत्तु रत्नप्रभुयामधिष्ठानानुषपत्तेरिर्यत्र प्रधानादिकञ्चेतनस्या-