पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
पुरुषसिद्धिः ।

ये तु नौष्टिका अव्यक्तं चा महान्तं वाऽहङ्कारं वा इन्द्रियाणि वा भूतानि वा ऽऽत्मानमभिमन्यमाना- स्तान्येवोपासते तान् प्रत्याह-


 संघातपगर्थत्वात् त्रिगुणादिविपर्ययाधिष्ठानात् ।
 पुरुषो ऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥




क्ताद्यतिरिक्तत्वसाधने च कणभक्षाक्षचरणादिवादिनः प्रतिसिद्धसा- धनमित्याशङ्कां दुरीकर्तुमुपोद्धासङ्गत्या संघातपरार्थत्वादि- त्वार्यामवतारयति -येत्वित्यादिना । तथा च तौष्टिकान्प्रत्ये- वाव्यक्ताद्यतिरिक्तत्वसाधने न सिद्धसाधनमित्यर्थः ।

 ननु आध्यात्मिकवाह्य भेदेन वक्ष्यमाणा नवधा तुष्टिर्येषां ते तौ- ष्टिकाः तेषां मोक्षसाधनज्ञानोपकारिध्यानाभ्यास प्रव्रज्याद्यननुष्ठानेन तप्यमानानां तत्साधनं विनापि प्रकृत्युपादानकालभाग्यसाधनेना- त्मज्ञानं भविष्यतीत्यसदुपदेशेन तापनिवृत्तिरूपा सा प्रकृत्याद्यति- रिक्तात्मानमधिकृत्य प्रवृत्तत्वात् आद्या, सुखरूपमोक्षमिच्छतां त- दुपायधनोपकार्यजनाद्यननुष्ठानेन तप्यमानानां सुखसुपरमादेव भ- विष्यतीत्यसदुपदेशेन तापनिवृत्तिरूपा सा द्वितीयापि सम्भवतीति तान्प्रत्यपि प्रकृत्यतिरिक्तत्वसाधने सिद्धसाधनमस्त्येवेति चेन्न ।


 पूर्ण शतसहस्त्रं तत्तिष्ठन्त्यव्यक्तचिन्तकाः ।
 दश मन्चतराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
 भौतिकास्तु शतं पूर्णं सहस्रं वाभिमानिकाः ।
 बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वरः ।

 इत्यादिपुराणमूलकेन शमदमादिसाधनमन्तरेणाव्यक्तादि- भूतान्तेषु पुरुषबुद्ध्युपामनयैव गतज्वरत्वरूपमोक्षः सम्भवती- त्यसदुपदेशनापि तुष्टिसम्भवे अव्यक्तादावात्माभिमानसम्भवादि- त्यभिप्रेत्याह-अव्यक्तमित्यादि