पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

प्रवृत्यन्तरमाह--"समुदयाच" इति । समेत्य उ- दयः ‘समुदयः संप्रवायः । स च गुणानां न गुण- प्रधानभावमन्तरेण सम्भवति, न च गुणप्रधानभावौ वैषम्यं विना, न च वैषम्यमुपमर्द्योपमर्दकभावादृते, इति महदादिभावेन प्रवृत्तिद्वितीया ।।।

त्यन्तररामिति । प्रवृत्यन्तर-उक्तलक्षणपरिणाम,तथाच मृजलसंव- लितबीजाद्बहुतरपरिणामान्तरितपत्रपुष्पादिविरूपपरिणामान्तरदर्श- नेनात्रापि बहुतरपरिणामानामेव निमित्तत्वं कल्प्यते इति भावः ।

 ननु समुदायः समुदयः समवायश्चयो गण' इति कोशेन समु- दयशब्देन बोधितस्य समुदायस्य चैतन्मते सर्वदा सत्वेन तस्य- विसदृशपरिणामहेतुत्वं न निर्वहत्यतो ऽवयवस्यार्थमाह-समेत्येति । उदयः परिणाम:। तथाच पूर्वसंसर्गित्वेऽप्यनागतेन गुण प्रधान भावेन समेत्य संभूय महदाद्यव्यवहितपूर्वक्षणवृत्त्युच्छून्यताख्यपरिणामोत्तरं महदादिरूपण परिणमते,उच्छून्यताख्यपरिणामोत्तरमेव मृज्जलादि- संवलितबीजादङ्कुरोत्पत्तिदर्शनेन तथैव कल्पनात् । बहुतरपरिणाम निमित्तकोच्छून्यताख्यपरिणामापरपर्यायात्समुदायान्महदुत्पत्तरिति भावः । समुदयाद्गुणप्रधानभावेन मिलनादित्यन्ये । तदेवदर्शयति-. सचेत्यादिना । स परिणामावशेषरूपः । गुणप्रधानभावो नामोप- कार्य्योपकारकभावः सोऽपि परिणामविशेष एव । तत्र च बहुतर- सदृशपरिणाम एव निमित्तं, तत्र च कालविशेष एवं नियामकः । वैषम्यं सदृशपरिणामत्यागरूपपरिणामविशेषः । उपमर्द्येति

 ननूपप्रर्द्योपमर्दकभावो नाम प्रतिबन्धप्रतिबन्ध्यकभावः तत्र तत्प्र- तिबन्धकत्वं तत्कार्यानुत्पादकतावच्छेदकधर्मवत्वं तथाच प्रतिबन्ध्य स्य कार्याक्षमत्वे चलं गुणवृत्तमिति विरोध इति चेन्न तत्रापि प्रधानका- यानुकूलपरिणामाङ्गीकारात् । अत्र च भावपदमुभयत्र संबध्यते भावश्च परिणामविशेषः । नतु नाश्यनाशकभावो गुणानां नित्यत्वात् । अभि-