स्येति त्रिगुणम् । तदनेन सुखादीनामात्मगुणत्वम् पररा- भिमतमपाकृतम् ।।
"अविवेकि"' । पधा प्रधानं न स्वतो विथिच्यते, एवम्मइदादयोऽपि न प्रधानाद् विधिच्यन्ते, तदात्मक- त्वात् । अथ वा सम्भूयकारिताऽत्राविधेकिता । न हि किञ्चिदेकं पर्याप्तं स्वकार्ये, अपि तु सम्भूय । तत्र नै कस्मात् यस्य कस्यचित् केन चिसम्भव इति ॥
नामात्मधर्मत्वाङ्गीकारादसम्भवोऽतिव्याप्तिर्वेत्यत आह । तदने-
नेति । "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति-
रधृतिर्ह्वीर्भीर्धी रियेतत् सर्वे मन एव, “तीरणौ हि तदा भवति
हृदयस्य शोकात् कामादिकं मन एवमन्यमानः सन्नुभौ लो-
कावनुसञ्चरति ध्यायतीच केलायतीव स यदत्र किञ्चित्पश्यत्य-
नन्वागतस्तेन भवती" त्यादिश्रुतिविरोधादिति तात्पर्यार्थः । युक्तिस्तु
वक्ष्यते । “अविवेकिविषयः" इति यदेकं पदं तदाऽविवे:
किभिज्ञैर्विषयो दृश्यं भोग्यो वेति तदर्थः । तत्र चाविवकिप-
देवैयर्थ्याँद्विच्छदमाह । अविवेकीति । अविवेकपदस्य यत्किञ्चित्-
परत्वे पौनरुक्त्यं यत्किञ्चिदभिन्नत्वपरत्वे च . पुरुषेष्वतिव्याप्तिः ।
सकलाभेदपरत्वे चासम्भव इत्यत आह । यथा प्रधानमिति ।
साधारणाविवेकपदस्य प्रधानाभिन्नत्वपरत्वे लक्षणापत्तेः । तद-
भिन्नत्वस्य च सजातीयकारणसाधनानुपयोगात्सङ्घातपरार्थत्वा-
दिस्यत्रानुपयोगाच्चाह । अथ वेति ।।
अचेतनत्वाद्विवेकाभावः सिद्ध इत्यपरितोषात्पक्षान्तरमाह । अध वेत्यन्ये । तत् । तस्मात् ।।
ननु अन्तःकरणवृत्त्य्याश्रयत्वरूपविषयत्वसाधर्म्यं विज्ञानस्कन्ध- मात्रं तत्त्वमिति वदतां योगाचाराणां मतेऽसम्भवीत्याशङ्क्याह । ये त्विति ।