पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


एचभेदे सिद्धे, तन्तव एवं तेन तेन संस्थानभेदेन परिणताः पटो, न तन्तुभ्योऽर्थान्तरं पटः । स्वात्मनि- क्रियाविरोधबुद्धिव्यपदेशार्थक्रियाभदाश्च नैकान्तिकं भे- दं साधयितुमर्हन्ति, एकस्मिन्नपि तत्तद्विशेषाधिर्भाव- तिरोभावाभ्यामेतेषामविरोधात् । यथा हि कूर्मस्याङ्गा- नि कूर्मशरीरे निविशमानानि तिरोभवन्ति, निःसर- न्ति चाविर्भवन्ति । न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वं- सन्ते वा । एवमेकस्या मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते, निविशमानास्तिरोभवन्तः विनश्यन्तीत्युच्यन्ते । न पुनरसतामुत्पादः सतां वा निरोधः । यथाह भगवान् कृष्णद्वैपायनः----

 नासतो विद्यते भावौ नाभावो विद्यते सतः"
   इति। ।( भगवद्गीता २ । १६ )




 ननु पटस्तन्तुभ्यो भिद्यते तत उत्पद्यमानत्वात् , व्यतिरेके त- न्तुवत् , तन्तुषु पट इंति विलक्षणबुद्धिविषयत्वात् , प्रावरणादि- विलक्षणकार्यकारित्वा्ञ्च घटवदित्याशङ्कायामाह। स्वात्मनीत्यादि। स्वात्मनि-स्वाभिन्नेपीत्यर्थः । क्रियाविरोधः-उत्पत्ति- नाशाख्यक्रियारूपयोरित्यर्थः । अविरोधे संमतिमाह । यथा- हेति । कृष्णद्वैपायनो वेदव्यासः ।

 कृष्णेन सह द्वैपायनः । अन्यथा “ष्ट्शतानि सर्विशानि श्लोकानां प्राह केशवः' इति विरोधः । तं धर्मं भगवता यथोपदिष्टं भगवान्वेदव्यासः सर्वज्ञो गीतारव्यैः सप्तभिः श्लोकशतरुपानेबद्ध इति श्रीशङ्करभाष्यविरोधश्चत्यन्ये । भाव–उत्पत्तिः । अभावो–विनाशः ।