स च परिणामभेद ऐन्द्रियकः , इति नास्ति प्रत्यक्षनव- रुद्धो विषयो यत्राभावाह्वयं प्रमाणान्तरमभ्युपेयेतेति ।
सम्भवस्तु यथा खार्यां द्रोणाढकप्रस्थाद्यवगमः । स चानुमानमेव । स्वारीत्वं हि द्रोणाद्यविनाभूतं प्रती- तं खार्यां द्रोणादि सत्वमवगमयति ।
न्धेयम् । प्रत्यक्षानवरुद्ध:-प्रत्यक्षप्रमाणायग्यः ।
सम्भवमप्यनुम्न्व्ऽन्तर्भावयति । स चेति । खर्य्या मितद्रव्ये द्रोणादिपरिमाणानामपि सत्वादित्यर्थः । प्रयोगस्तु ‘खारी द्रोणव- ती तद्धटितत्वात् यद्येन घटिनं तत्तद्वद्यथा यववान् घटः’ इति । एवं द्रोणे आढकं, सहस्रे शतमित्यादावप्यूह्यम् । यत्तु-सम्भवति ब्राह्मणे विद्या, क्षत्रिये शौर्यमित्यादि, तत्प्रमाणमेव न भवति, अनिश्चा यकत्वादिति ।
एवं चेष्टापि न प्रमाणान्तरम् । चेष्टा हि द्विविधा-कृत समया ऽकृतसमय च । तत्र कृतसमय-अभिप्रायविषयशब्दं स्मारयति, ततः शब्दबोधः । न च शब्दस्मरणं चेष्टाय अवन्तरव्यापारः- चेष्टमन्तरेणापि शब्दज्ञानादर्थप्रत्ययात्, व्यापारत्वे तु चेष्टनैयत्याप- त्तेः । अकृतसमया च द्विध-कृत्यन्वयिनी ज्ञप्त्यन्वयिनी च । आद्या हि प्रयोजकाभिप्रायं स्मारयति प्रयोज्यं प्रवर्तयति, यथा ‘श- ङ्खध्वनौ त्वयऽऽगन्तव्यम्’ इति श्रुतशङ्खनिः प्रतिष्ठते । यथा वा ‘यद। तर्ज्जन्यूर्द्ध्व क्रियते तदा त्वयासौ ताडनीयः’ इति तदा ता- डयति परं न तु किञ्चिप्रमिणोति । ज्ञाप्त्यन्वयिनी पुनर्द्विधा- का- रकप्रधाना क्रियाप्रधाना च । आद्य यथा ‘दशानमङ्गुलीनामूर्द्ध्वक क् रणेनेदृशसङ्ख्या मुद्रणामन्येषां वा त्वया ज्ञातच्या’ इति । द्वितीया यथा ‘हस्ताकुञ्चनदर्शेनात्त्वया समागमनं ज्ञातव्यम्’ इति । तथा च तया चेष्टया पदार्था एव स्वन्तन्त्राः प्रकृते स्मर्यन्ते न तु तेषां प- रस्परमन्वयोपि बोध्यते, तद्वोधक-कर्त्तृकर्मादिविभक्तिमञ्चेष्टैकदेशानां