मपि 'द्रव्यत्वाद्यभाववान् प्रमेयवत्’ इत्यादों माधनव्यापकसंयोगा भावादावतिव्याप्तिः, संयोगाभावभावस्याधिकरणे साधनवति द्रव्ये द्रव्यस्वभावाभावस्य सत्त्वादिति वाच्यम् । यद्धर्मावच्छिन्नेत्यत्र निविष्टाधिकरणपदेन निरवच्छिन्नाधिकरणताश्रयस्य विवक्षितवा- त् । न चैवं ‘धूमवान् वन्हे:’ इत्यादौ ह्रदत्वाद्यभावाधिकरणेऽयो- गोलकादौ धूमधभावमत्त्वेन ह्रदत्वादावतिव्याप्तिरिति वच्यम् । साध्यसमानाधिकरणवृत्तित्वेन धर्मस्य विशेषणीयत्वात् । न च ह्रदवृत्तित्वविशिष्टद्रव्यत्वेऽतिव्याप्तिरिति वाच्यम् । साध्यसमाना- धिकरणवृत्तित्वंपदस्थ-स्वविशिष्टानधिकरणसाध्याधिकरणकं य- द्यत्स्वं, तत्तद्भिन्नत्वपरत्वात् । अत्र नञ्द्वयोपादानान्न महान्- सवृत्तित्वविशिष्टद्रव्यत्वादेरुपाधित्वापत्तिरित्याहुः ।
ननु उपाधेर्दूपकत्वं स्वव्यतिरेकालिङ्कपक्षविशेष्यकसध्या भावानुमितिप्रयोजनकरूप-सत्प्रतिपक्षोन्नायकतया, उत स्वाभाव- ववृत्तित्वलिङ्गकसाधनपक्षकसाध्यव्यभिचारानुमितिप्रयोजकरूप- साध्यव्यभिचारोन्नायकतया । नाद्यः । ’घटोऽनित्यो द्रव्यत्वात्’ आर्द्रेन्धनवान्पर्वतो धूमवान् वन्हेः’ इत्यादों पक्षवृत्तिकार्यत्वार्द्रेन्ध- नाद्युपाधेर्दूषकत्वानापत्तेः । न च तषामुपाधिवमेव नास्तीति शङ्क्यम् । तल्लक्षणयोगित्वात् । अन्यथापि दूषकत्वसम्भवाच्च । न द्वितीयः । उपाधिनिष्ठसाध्यव्यापकताहेतुनिष्ठसाध्यव्याप्यता । ग्राहकसहचारयोस्तुल्यत्वे् साध्ययापकोपाधिव्यभिचारित्वेन सा धनस्य सध्यव्यभिचरित्वानुमनवत्-साध्यव्यप्यसधनाव्याप- कत्वेनोपाधेः साध्यव्यापकत्वानुमानसम्भवेनोपाधिव्याभिचारित्वेन साध्यव्यभिचारानुमानासम्भवादिति चेन्न । चरमपक्षस्यैवाऽङ्गी- कारात् । न चाऽतुपदोक्तदोष इति । वाच्यम् । साधने साध्य- व्याप्तिग्राहकानुकूलतर्कासत्त्वे उपाधेश्च सध्यव्यापकत्वसादनाव्या- पकत्वनिश्चये संशये वा दूषकताबीजचिन्तनात् । तथा च सर्वत्र-