सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
प्रत्यक्षनिरूपणम् ।



वार्थस्तु=विसिन्वन्ति-विषयिणपनुबध्नन्ति , नुबभ्रति-स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत्-विषयः-पृथिव्यादयः सुखादयश्च । अस्मदादीनमविषयास्तन्मात्रलक्षणाः




वार्थः-प्रतिपदार्थः, अत्र पदानमेव वाक्यावयत्वात् । विष- यिणो बुद्धिवृत्तेर्मुख्यबन्धनासम्भव[]), []प्रकृतेऽनुपयो- गाञ्चाऽऽह । स्वेनेति । स्वन-स्वीयेन -स्त्रसम्वन्धिवेन रूपेण । तृतीया प्रकारतायाम् । []तथा च घटज्ञानं पटज्ञानमित्यादिस्व सम्बन्धित्वप्रकारकबोधजनकशब्दरूप-निरूपणविषयं कुर्वन्तीत्यर्थः । के ते ? इत्यत आह । पृथिव्यादय इति । तन्मात्राणामस्म- दीयप्रत्यक्षागोचरत्वाद्विषयत्वं न स्यादत आह । अस्मदादीनाम


तनैवम्, यथाऽनुमानमित्यादौ प्रमाणत्वेन समानजातीयानुमानादिभ्यः, असमानजातीयघटादिभ्यो भेदस्याऽनुमितेः प्रतिविषयाध्यवसायत्वाद्य- साधारणरूप-लक्षणहेतुकत्वम, तेन कथमितरभेदस्यैव लक्षणाभिधेय- त्वम्, न हेि साध्यमेव साधकम् । साध्यस्याऽसिद्धत्वात् । सधकस्य च लिद्धत्वात् । सिद्धत्वासिद्धत्वयोर्विरुद्धत्वात्, इति भावः ।

  १ चलनप्रतिबन्धक संयोगविशेषो मुख्यबन्धनम् । तथा च बुद्धिं
  वृत्तेरद्रव्यत्वेन तदसम्भवादित्यर्थः ।

  २ ननु बुद्धिवृतेश्चक्षुरादिद्वारा विषये सर्पणेत कथमद्रव्यत्वम् ,
  अपि तु क्रियाश्रयत्वेन रथादिवत् द्रव्यत्वमेव । तथा च सूत्रम्-
  (साङ्ख्य अ० ५ सू० १० ७) “भागगुणाभ्यां तत्त्वान्तरं वृत्तिः, सम्बन्धार्थं
  सर्पतीति” इति । अस्यार्थः--यतो बुद्ध्यादिवृत्तिर्विषयसम्बन्धार्थं सर्पति,
  ततो हेतोः सा वृत्तिबुद्ध्यादेर्विभक्तोऽग्निविस्फुलिङ्गादिवत् भागो न,
  यदि बुद्ध्यादिर्वृत्तितो विभक्तभागरूपा स्यात्, तर्हि भागत्वेनाऽभिमत-
  वृत्तिरेव विषयसंबद्धा स्यात्, न तु बुद्ध्यादिः, तयेर्भेदात् । एवं रूपदि
  वत् गुणो न, गुणस्य क्रियाशून्यत्वात् । बुद्ध्यादिवृत्तेस्तु सर्पणाक्य-
  क्रियाश्रयत्वात् । अपि तु ताभ्यां तत्वान्तरमेवति, इत्यत आह-प्रकृते
  ऽनुपयोगाञ्चेति ।

  ३ ‘बोधजनकः शब्दो निपूर्वकरूपधात्वर्थःकर्मत्वर्थक-‘अनी-
  यर्'प्रत्ययार्थश्च विषयत्वमिति शेषः । इत्यादि=इत्याद्याकारकम् ।