रिति वाच्यम् । एकस्य यत्तच्छब्दार्थस्य खण्डकालातिरिक्तस्य महा- कालस्यैव सम्भवे तत्र घदभूतलाश्रयाश्रयिभावसत्त्वेन व्यभिचरा- भावात्[१] स्त्रोभयस्य स्वाश्रयाश्रयिभावव्याप्यत्वनिवेशेनैवोपपत्तौ स्वोभयधिकरणकालनिवेशस्य वैयर्थ्याञ्च[२] । न च तावन्मात्र- मेवाऽस्तु । [३]ईश्वरज्ञानपरमाण्वोरतिव्याप्तेः । [४]किं च विशेषण- तान्यसाक्षात्सम्वन्धपदेन किं विवक्षितम् ”-समवायः सं योगा- दिर्वा ? नाद्यः । स्वलक्षणे स्वनिवेशेनऽऽ त्माश्रयापत्तेः । न द्वितीयः । घटभूतलादावतिव्याप्तेः ।
यदपि संयोगविभागायोग्यत्वमयुतसिद्धसिद्धवम्, तदपि । न । देव- दत्तस्य हस्तादीनामयुतासिद्ध्य भावप्रसङ्गात् । तस्मान्न लक्षणं सुवचम्।।
नाऽपि तत्र मानम् । [५]नाऽपि 'इह तन्तुषु पटसमवायः’ इति
१ ननु स्वश्रयाश्रयिभावव्याघ्रस्वो भयकालकत्वमित्यत्र स्वो-
भयकालाधिकरणत्वस्य खण्डकालेऽपि सस्वाद्घटभूतलाश्रये तस्मिन्
लर्वस्मिन्नपि स्वाश्रयाश्रयिभावाभवदेव नाऽतिव्याप्तः । न च स्वस्मि
न्नपि स्वस्य वृत्तित्वं स्वोभयकालरूपखण्डकालश्रयत्वस्य खण्डकले
स्वीकर्तुमते स्यादिति शङ्क्यम् । इष्टापत्तेरिस्याशयेन दूषणान्तरमाह
स्वोभयस्येत्यादि ।
२ लक्षणस्य हि प्रयोजनमितरभेदसाधनम् । एवञ्चऽयुत-
सिद्धत्वलक्षणस्याऽपि भवदुक्तस्येतरभेदसधकत्वमावश्यकम् । तत्र
व्यभिचारावारकविशेषणघटितहेतोरेव व्यप्यतया प्रयोक्तुं शक्यत्वेन
लाघवात् तस्यैव व्याप्यत्वेन तदृश—(व्यर्थ-विशेषणघटित-)हेतो-
र्व्याप्यत्वासिद्धत्वात् । हेतौ व्यर्थविशेषणघटितत्वस्यैव व्याप्यत्वा-
सिद्धिपदार्थत्वादित्याशयः ।
३ यदेश्वरज्ञानपरमाणू , तदा विषयविषयिभावरूपविशेषणता-
न्यसाक्षात्सम्बन्धेन तयोराश्रयाश्रयिभावः इति तयोरतिव्याप्तिरित्या
ह-ईश्वरेति ।
(४) ननु यदेश्वर ज्ञानपरमाणू । तदा तयोर्विषयविषयिभावेना-
ऽऽधराधेयभवापरनामकाश्रयाश्रयिभावोनाऽङ्गोक्रियते, विषयितादेवृ
त्त्यनियामकत्वादित्यत आह-किञ्चेति ।
५ मानाभावमेवोपपादयति--नाऽपीहेत्यादिना ।
१५