न स्यादित्येवं प्रसङ्गः सम्भवतीति वाच्यम् । परस्पराधीनबोधा- सिद्ध्याऽऽपाद्याप्रसिद्धेः । कयाचन कल्पनयाऽप्रसिद्धत्ववारणेऽपि वस्तुवं भवतु,परस्परायत्तबोधं चास्तु, किं बधकमित्याशङ्काखण्ड- कदण्डस्य दुर्लभतया व्याप्त्यसिद्ध्या मूलशथिल्यापत्तेः । एव- मात्माश्रयान्योऽन्याश्रयावेव मध्यं परमन्तर्भाव्य चक्रकरूपेण परि णमते अतश्चक्रकं तद्दोषं नातिक्रामति । एवं व्याघातोऽपि कथमुप- न्यसनीयः। न तावद् अयं सत् स्यात्तदा सन्न स्यदिति । तथा सतेि असन्न स्यादित्यस्यापि सत् स्यादित्यर्थे एव पर्यवसानेऽभेदेन व्या- प्यव्यापकभावस्यैवभावेन मूलशैथिल्यात् । प्रतिबन्द्यपि दूषणं न भवति । तथाहि-परोद्भवितं दूषणमपहृत्य प्रतिबन्द्या प्रत्यवतिष्ठमा- नस्य को ऽभिप्रायः? । किमुद्भावितं दूषणमेव न भवति दोषहीने- ऽपि त्वत्पक्षे गतत्वात् , उत दूषणमपि सन्नोद्भाव्यम्---
यत्रोभयोस्समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥ १ ॥
इति न्यायेन वादिप्रतिवादिनोः समानयोगक्षेमत्वादिति ।
नाद्यः । दोषनिरासाय यत्नं विहाय प्रतिबन्दीग्रहणानुपपत्तेः । न
द्वितीयः । तेनानुद्भावनेऽपि दोषसत्वेन सभापतेर्वस्तुनिर्णयानुपप-
त्तेः, स्वविजयनुपपत्तेश्च । अधिकन्तु खण्डनादावनुसन्धेयम् ।
विना येन प्रमाणानि प्रमाण्यं न मनागपि ।
यान्ति यान्ति च येनातस्तर्कस्तर्क्यः स तार्किकैः ॥ १ ॥
इति । प्रमाणानुग्राहकस्सत्तर्कः । स प्रमापकोऽपमापको-
वा । नान्त्यः । वैयर्थ्यापत्तेः । प्रमापकत्ववे किं प्रमाणोत्पाद्यां
प्रमां करोत्यन्यां वा । अन्यां चेत्कथं प्रमाणोपकरणत्वम् । न हि
घटज्ञानजनकं पटप्रमाणोपकारीति सम्भवति । प्रमाणोपाद्यप्रमो-
त्पादकत्वे नेिर्द्रष्टव्यार्था ये तत्वेन तुल्यत्वे सति एकेन प्रमोत्पाद-
निर्वाहेऽपरस्यः वैयर्थ्यपत्तिः । नच तर्कव्याप्तेराभासत्वाङ्गी-