पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
सटीकसाड्ख्यतत्वकौमुद्यम् ।



स्वमित्वेनोपनेयत्वेन वा भवति । तथा च ग्राह्यग्राहकादरात्माश्र- यान्तर्भावः । ‘यद् यत्र प्रमाणं तत् ततो भिन्नं यथा चक्षुरूपात् '। इत्थं च स विशेषश्चेत्प्रमाणं तर्हि स्वान्यस्मिन् स्याद् । नो चेत्स्वस्मि- न्स्याद्वाऽप्रमाणं वोभयथाऽप्यनिस्तारः। नच यदि विशेषः स्वस्मिन् प्रमाणं स्यात्तर्हि । आत्माश्रयः स्याद् अत्रान्वयव्याप्त्यभावादाभास- त्वमिति वाच्यम् । पृथिवीत्यादाविव व्यतिरेकव्याप्तिसत्त्वात् । तथाहि- अथ विशेषान्तरं तर्हि तस्मिन् किं पूर्वः प्रमाणं तुतीयो वा ? । पूर्व- श्चेदन्योन्याश्रयः स्यात् प्रथमे द्वितीयो, द्वितीये प्रथम इति । व्या- प्तिस्तु ‘यदू यत् प्रति प्रमाणम् तत् तत् प्रति प्रमेयं न भवति’ यथा चक्षुर्घटं प्रति । प्रकृतेऽपि यदि द्वितीयो विशेषः प्रमाणं स्यात्तर्हि स्वप्रामाण्ये तस्येति व्यापकविरुद्धोपलब्धिः । नो चेदन्योन्याश्रयः स्यादप्रमाणत्वं वा । अथ द्वितीये तृतीयः प्रमाणं तर्हि । तृतीये किं प्रथमः प्रमाणं प्रथमे तृतीय इति स्वीक्रियते, किंवा प्रथमे द्वितीयो द्वितीये तृतीयस्तृतीये प्रथम इति ?। आद्ये पृर्ववदन्योन्याश्रयः स्यात् । द्वितीये चक्रकम् । व्या- प्तिस्तु ‘यदू यत्र प्रमाणं तद् स्वप्रमाणप्रमेतौ विषयीभूत्वा प्रमाणं, यथा श्रोत्रं शब्दे । प्रकृते तद्वैपरीत्याच्चक्रकं स्यादप्रमाणत्वं चेति । अथ तृतीये चतुर्थश्चतुर्थे पञ्चम इत्येवं न पूर्वोक्तदोषस्तर्ह्यनव- स्था प्रसज्येत । व्याप्तिस्तु ‘यत् प्रमाणं तद् उत्तरोत्तरप्रमाणापेक्षं न भवति यथा चक्षुः, प्रकृते तद्व्यापकविरूद्धपलब्धेरवस्थायां कारणभावादनवस्था । ननु बीजादङ्कुरः कल्प्यतेऽङ्कुराद्बी- जन्तरमित्यनवस्थायामपि न दोषो भवति एवमत्र । तन्न । तत्रै ककार्यस्य प्रत्यक्षदृष्टकारणपरंपरानुमानेऽधोमुखीत्वान्न दोष- मावहति । इह तु कल्पकस्यापि कल्पनयित्वाकल्पकपरंपराया- मूर्द्धमुखत्वन्मूलक्षयकरतवे तद्दोषात् ।

 यदाहुरुदयनाचायोः