पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
42
श्रीसरस्वतीविलास

दण्डस्यागतिक[१]सगतिकत्वप्रतिपादनार्थम् । अतः उपायाः त्रय एवेति सम्यञ्चः । अतएवाह योगीश्वरः--

"उपायास्साम दानं च भेदो दण्डस्तथैव च
सम्यक्त्वयुक्तासिद्ध्येयुः दाण्डस्त्वगतिका गतिः" इति ॥

चत्वार इति चतुस्सङ्ख्यया अयोगस्य व्यवच्छेद एव नान्ययोगव्यवच्छेदः क्रियते इत्याहुः । तथा च मायाक्षेन्द्रजालात्मकमुपायत्रयं सङ्गृहीतं भवति । तैस्सार्धमुपायास्सप्तैव । माया नाम अपह्नवोपायः । मिथ्याज्ञानोत्पादनमिति यावत् । अक्षाः प्रसिद्धाः । यथा शकुनिनाक्षैः युधिष्टिरराज्यग्रहणम् । अत्रौशनसादिनीतिशास्त्रेषु मायाक्षेन्द्रजालैस्सह सामादयः सप्तेति । माया नाम कीचकवधे वृकोदरेण स्त्रीरूपधारणम् । तत्रैव कीचकवधे विराटस्यासौ कीचको म्रियतामित्युपेक्षेत्युक्तम् । इन्द्रजालं तु मायारूपवस्तुकल्पनम् । यथा-- वत्सराजग्रहणं ऐन्द्रजालिकगजनिर्माणेन । अतश्च मायेन्द्रजालयोः कार्यकारणतया भेदः । अक्षेषु यद्यपि मायास्ति, तथापि माया प्रतारणशब्दवाच्येति भेदः । अतएव मायादित्रिकं प्रतारणनिबन्धनत्वात् कष्टम् । अतएव चत्वार उपाया इत्युक्तम् । गौतमसूत्रे । याज्ञवल्क्यादिस्मृतिकारैरपि चत्वार एवोपायाः प्रतिपादिताः । तथाच गौतमसूत्रम्--

"चतुरुपायानवलम्ब्य सन्धिविग्रहयानासनद्वैधीभाव
समाश्रयाख्यान् गुणान् परिकल्पयेत् ॥ इति ॥

सन्धिविग्रहादिगुणाः.

 सन्धिः व्यवस्थाकरणम् । विग्रहः अपकारः । यानं



  1. गतिकगतिप्रति--B. कोशपाठः.