निमित्तकाद्यथाक्रमेण दण्डौ वेदितव्यौ । एव मन्यत्राप्यूहनीयः । अत्र विष्णुः-- 'प्रातिलोम्येन पारुष्ये द्विगुणो दम' इति । अयमर्थः--द्विगुणास्त्रिगुणा दमाः ब्राह्मणाक्षेपकारिणोः क्षत्रियवैश्ययोः पञ्चाशत्पणापेक्षया द्विगुणाश्शतं पणाः त्रिगुणाः सार्धशतं पणा दण्डो वेदितव्य इति ॥
प्रातिलोम्यापराधेषु द्विगुणास्त्रिगुणा दमाः ।
वर्णानामानुलोम्येन तस्मादर्धार्धभागिनः ॥
इति । शूद्रविषये विशेषमाह मनुः--
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
वैश्योऽप्यर्धशदं द्वेवा शूद्रस्तु वधमर्हति ॥
वधोऽत्र जिह्वाच्छेद इति विज्ञानेशः । एवं विट्छूद्रयोरपि क्षत्रियादनन्तरयोः तुल्यन्यायतया शतमर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यं । शूद्रस्य वैश्याक्रोशे शतं । एवं इतरदूह्यं । यदुक्तं मनुना--
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्यस्य त्वर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥
इति । अत्र विशेषमाह याज्ञवल्क्यः--
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस्तदधर्कः पादनासाकर्णकरादिषु ॥
शत्यः-- शतपरिमितो दण्डः । पादादि भङ्गं करिष्यामीति वाचिके विनाशे तदर्धिकः पञ्चाशत्पणिको दण्ड इत्यर्थः । तीव्राक्रोशे विशेषमाह स एव--
पतनीयकृति क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते च दाप्यः प्रथमसाहसम् ॥