पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
471
व्यवहारकाण्डः

इति निषेधाच्च । अत्र विशेषमाहतुः शङ्खलिखितौ-- क्षत्रिय वैश्ययोरन्योन्यस्त्र्यभिगमने दण्ड्यावुभाविति । अत्र विज्ञानेशः-- यथाक्रमं सहस्रशतपणात्मकौ दण्डौ वेदितव्यौ । यथाऽऽह-- मनुः--

वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥

इत्याह । भारुचिस्त्वन्यथा व्याचष्टे-- वैश्यस्य भार्यायां यः क्षत्रियः व्रजति तस्यैव भार्यायां वैश्यो व्रजति चेच्छतपणात्मको दण्डो वेदितव्यः । तथा अन्यस्य यस्य कस्यचिद्वैश्यस्य भार्यायां क्षत्रियो गच्छति सहस्रपणान् दण्ड्यः । क्षत्रियायां वैश्यो गच्छन् सहस्रपणान् दण्ड्य इति । कन्यायां तु विशेषमाह याज्ञल्क्यः--

अलङ्कृतां हरन् कन्यां ह्युत्तमं ह्यन्यथाऽधमम् ।
दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधःस्मृतः ॥

इति । विवाहाभिमुखीमलङ्कृतां सवर्णां कन्यां अपहरन् उत्तमसाहसं दण्डनीयः । तदभिमुखीमसवर्णां हरन् प्रथमसाहसं । उत्कृष्टवर्णजां कन्यां अपहरन् क्षत्रियादिः वध्यः । दण्डविधानादपहर्तुस्सकाशादाच्छिद्यान्यस्मै देयेति विज्ञानेशः । भारुच्यादयस्तु राज्ञा दण्डनीय एव । किन्तु तस्य वरसम्पत्तिरस्ति चेत् तस्मै देयेति पैशाचविवाहस्य सद्भावादित्याह । धारेश्वरादयस्तु वरसम्पत्तिप्रतिपादनं ह्यर्थदण्डानन्तरं । सवर्णा चेत्तस्मै देयेत्याहुः ॥

 अत्र विष्णुर्विशेषमाह 'अनुलोमासु कामतो न दोषः' इति । अयमर्थः-- हीनवर्णां सानुरागां कन्यां योऽपहरति तस्य न दोषः । दोषाभावादेव दण्डाभाव इति दण्डापूपिकया