पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
468
श्रीसरस्वतीविलासे

कटाक्षवीक्षणं हास्यं प्रथमं साहसं स्मृतम् ।
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥
प्रलोभनं चान्नपानैर्मध्यमं साहसं स्मृतम् ।
सहासनं विविक्ते तु परस्परमुपाश्रयः ॥
केशाकेशिग्रहश्चैव सम्यक्सङ्ग्रहणं स्मृतम् ।

 अयमर्थः-- अदेशे आरामादौ अकाले अन्धकारे निर्जने विजने सल्लापनं करोति सहैकमञ्चादौ चिरं अवतिष्ठते सोऽपि सङ्ग्रहणे प्रवृत्तः । एतच्च शङ्क्यमानपुरुषविषयं इतरस्य न दोषः । तथाऽऽह मनुः--

यस्त्वनाकारितः पूर्वं विभाषेताऽपि कारणात् ।
न दोषं प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः ।

इति । एतच्च कटाक्षवीक्षणादिव्यतिरिक्तसहैकमञ्चस्थितिमात्रविषयं ॥ तथाच विष्णुः--

 संलोभनापाङ्गदर्शनविहसनसहैकत्रनिवासाः संग्रहगमकाः इति । तथा च गौतमः-- परदाराभिमृष्टः स्तब्धश्चेद्ग्राह्य इति । स्तब्धः स्पर्शने क्षमते । तथा च मनुः--

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तदा ।
परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥

इति । विष्णुस्तु विशेषमाह-- 'मोहादियं मया भुक्तेति यो वदति स तु ग्राह्य' इति । मोहो दर्पादीनामुपलक्षकः । यथाऽऽह मनुः--

दर्पाद्वा यदि वा मोहात् श्लाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भुक्तेति तच्च सङ्ग्रहणं स्मृतम् ॥

इति । तथा च गौतमः-- 'प्रतिषेधे पुमान् दण्ड्यः तदर्धं स्त्री' इति । अस्यार्थो विवृतो निबन्धनकारेण-- पतिपित्रादिभिर्येन