पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
441
व्यवहारकाण्डः

विभागस्य निष्पादकत्वं पुरस्तान्निवेदयिष्यते । पृथक्क्षेत्रैश्च यौतकैरिति चकारसमुच्चितार्थस्तु दशवर्षपर्यन्तावस्थिताः कारका इति च पुरस्तान्निवेदयिष्यते । नन्वस्मिन् वचनद्वये लेख्यसाक्षिभ्यां तुल्यतया लिङ्गानां गमकत्वमुक्तं; तन्नसंगछते । लिङ्गानां तर्करूपेण प्रमाणानुग्राहकतया तद्वत्प्रमापकत्वायोगादिति चेन्मैवं, अस्मिन् विवादपदे लिङ्गानामपि प्रमापकत्वमेव न त्वितरसप्तदशविभागपदेष्विव लिङ्गानां प्रमाणानुग्राहकत्वं । तथाहि-- विभागार्हेषु भ्रातृषु परस्परमृणप्रातिभाव्यसाक्ष्यदानप्रतिग्रहपितृदेवार्चनक्रियाः षोढा दर्शन उक्ताः हस्तादिलिङ्गतुल्या न भवन्ति । ततश्चैतानि 'नाविभक्ताः कथंचन' इति स्मृतिवशादविभक्तानां निषिद्धानि 'विभागनिह्नव' इत्यादिवचने साक्षिलिखितसमानयोगक्षेमतया लिङ्गान्युक्तानि भवन्ति । इतरेषु विवादपदेषु लिखितसाक्ष्यादीनामेव प्रमापकत्वात् इतरेषां तदनुग्राहकत्वं; अत्र तु न तथेति । किंचानेनैव वचनेन ज्ञायते-- अस्मिन्विषये लिङ्गानामपि लेख्यसाक्षिभ्यामन्तरेणापि प्रमापकत्वमभ्युगतमिति । अत एव बृहस्पतिः--

साहसं स्थावरस्वाम्यं प्राग्विभागश्च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्युर्यस्य च साक्षिणः ॥

न स्युरिति-- लिखितसाक्षिणावन्तरेणेत्यर्थः । साक्षिग्रहणं प्रबलप्रमाणस्योपलक्षणं । अत एव लेख्यमपि सङ्गृहीतं । अत एवानन्तरमुक्तं तेनैव--

तेषामेताः क्रियाः लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तानवगच्छेयुः लेख्यमप्यन्तरेण तान् ॥

S.VILASA.
56