पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
424
श्रीसरस्वतीविलासे

दाप्य' इति वचनबलाद्वास्तवं रिक्थग्राहित्वमवलम्ब्य तदृणसंशोधनं न्याय्यं । स्वाम्यं त्वप्रतिबन्धमेव । अतश्च दौहित्रस्याप्रतिबन्धो दायग्रहः न दुहितुः । यदि दुहितुरपि स्यात् दौहित्रसङ्क्रान्तरिक्थं तदभावे मातापितृगामि स्यात् । तच्च सर्वविद्वदसंमतं । सन्ततिहीनाया दुहितुः पुत्रिकारूपसन्ततिहीनाया वा रिक्थसङ्क्रान्तौ तन्मृत्यनन्तरं तद्दुहितॄर्वा तज्ज्ञातीन्वा रिक्थं प्राप्नुयात् । तच्च न्याय्यं न भवति । तथा च स्मर्यते--

अपुत्रायाश्च दुहितुः पितृरिक्थं हरन्ति ते ।
पितृभ्रातृसुताद्याश्च गोत्रजा नैव बान्धवाः ॥

इति । बान्धवा-- मातुलादयः पैतृष्वसेयादयश्च । तथा च विष्णुः-- अनपत्यरिक्थं न बान्धवगामीति । अयमर्थः-- अनपत्यानां स्त्रीणामनपत्यस्य वा रिक्थं सप्रतिबन्धो दायः सगोत्रान् ज्ञातीनेव सङ्क्रामति । न त्वनपत्यानां पुत्रिकासन्ततियुक्तानां वा दुहितॄणां ज्ञातीन् तेषां सगोत्रत्वाभावादिति । अत एव पत्नीविषये हरीतः--

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
भुञ्जीतामरणात् क्षन्ता दायादा ऊर्ध्वमाप्नयुः ॥

इति । अत्रापुत्राया इति स्मृतेरनपत्यरिक्थं न बान्धवगामीति स्मृतेरपुत्रानपत्यशब्दयोः एकार्थत्वाङ्गीकाराद्दुहितुरपि पुत्रिकासन्ततिसहितायास्तद्दुहित्रनन्तरं तत्पुत्रिकागामि न भवति धनमिति । अत एवाह स एव-- न पुत्रिकागामि न बान्धवगामि किन्त्वपुत्रस्य रिक्थिनो ज्ञातयो धनं हरेयुरिति । अत्र केचिदाहुः-- पत्नीदुहितरश्चैवेत्यत्र चकारेणानुकृष्टो दौहित्रः । एवकारेणावधारणार्थेनावधारितः । अतश्च दौहित्रगाम्यपि धनं दौहित्राभावे