पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
413
व्यवहारकाण्डः

यथैवात्मा तथा पुत्रः पुत्रवद्दुहिता समा ।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥

इति । आत्मनि-- आत्मतुल्ये-- पुत्रसमायां इत्यर्थः । नन्वेवमयं न्यायः गौणपुत्रयत्न्योरभावे दुहितर इति न प्रसरति; किंतु औरसाभावमात्रे दुहितेत्येतावन्मात्रसाधकत्वात् । सत्यं, किन्त्वेवमेव गौणपुत्रपत्न्योरभावे दुहितेत्यत्र क्रमन्याय ऊहनीय इत्यभिप्रायेणोक्तं । अत एव नारदेन-- अनयोरप्यभावे दुहितेति क्रमानुसारन्यायः स्वयमूहितो मन्दानुग्रहाय प्रदर्शितः--

पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ।

इति । अयमर्थः--

पुत्रश्च दुहिता चोभौ तुल्यसन्तानकारकौ ।

उभौ स्वपितृश्रेयस्करावित्यर्थः । तथाहि-- पौत्रदौहित्रयोः पुत्रदौहित्रसन्तानयोः स्वरूपतस्तुल्यत्वाभावात्कार्यतोऽत्र तुल्यत्वमभिहितं । नच ऋणापाकरणरिक्थग्रहणलक्षणकार्यतस्तुल्यत्वं संभवति । 'पुत्रपौत्रैः ऋणं देयमिति' तथा-- पितामहद्रव्यमधिकृत्य--

तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः' ।

इति स्मरणाच्च पौत्रस्याधिक्यप्रतीतेः । तेन दृष्टकार्यतस्तुल्यत्वमभिप्रेतं तच्च श्राद्धदातृत्वम् ।

'पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः' ।

इति विष्णुस्मरणात् । एवं च दुहितुः सन्तानमुखेनादृष्टोपकारसम्बन्धेन आसन्नता; पत्न्यास्तु साक्षादग्निहोत्रादिजन्यादृष्टोपकारसहकारित्वेन दुहितुस्सकाशात्प्रत्यासन्नतरत्वं । अतश्च पुत्राभावे दुहितेत्यत्र पुत्रग्रहणं पत्न्या अपि प्रदर्शनार्थं मन्तव्यम् ।