पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
398
श्रीसरस्वतीविलासे

र्थ्यादलौकिक(त्व)मपि कल्पयितुं शक्यते । सर्वात्मनैवालौकिकरूपे मध्ये लौकिक(त्व)रूपकल्पना हेत्वाभावान्न शक्येति । उत्पन्नस्यापूर्वस्य कार्यकारणानुमानवेद्य(त्व)रूपमपि नास्ति तदपेक्षाया अनुत्थानात् । उत्थितौ वा वेदवेद्यमपूर्वमुत्पन्नं पश्वादेः फलस्योत्पत्तेः इति वेदवेद्यत्वाकारोल्लेखेनैवानुमानमपूर्वांशं स्पृशतीति न काचित् क्षतिः । यथोक्तं गुरुणा नवमाद्ये निबन्धने-- 'वेदवेद्यत्वाकारस्य लौकिकत्वेऽपि वेदवेद्यं स्वरूपमलौकिकमेवेति' अस्यग्रन्थस्याभिप्रायमाह नाथः--लिङ्वाच्यमपूर्वमित्येवमाकारं ज्ञानं लिङ्पृष्ठभावेन लिङ्वेद्यत्वाकारोल्लेखेनैव वाऽपूर्वं स्पृशतीति नैतादृशज्ञानवेद्यत्वे वेदैकवेद्यतालक्षणापूर्वता विहतिः । न हि वेदवेद्यताकारोल्लेखेन जायमानस्य यूपाहवनीयादेर्वेदैकवेद्यताविहतिरिति स्थूलत्वं हेतोरिति सिद्धं । नान्वाचार्यकं लोकिकं अध्यापनकर्तर्याचार्यशब्दप्रयोगात् । अतो लिङ्वात्वमभिमतं दूरनिरस्तं स्यात् । यथोक्तं वृद्धैः--

लोके क्वाप्यप्रयुक्तत्वाद्विधिसाध्ये प्रयोगतः ।
अलौकिकार्थं यूपादिपदं कामं प्रसिध्यतु ॥
नालौकिकार्थमाचार्यपदमेतद्द्वयात्ययात् ।
मुखं गुरुमत (स्यार्धं) स्याद्धं खडितं (किमु) किल पण्डितैः ॥

मैवं,

उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥

इति । स्मृतिरभियुक्तश्रुतिसृतिप्रयुक्ताचार्यपदार्थसंशयनिवृत्त्यर्थं प्रणीतेति तावदास्येयं । सा च न्यायतो विविच्यमाना यादृशेऽर्थे पर्यवस्यति तादृशे स्मृतेस्तात्पर्यं वाच्यं । तत्र यद्यपि