पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
359
व्यवहारकाण्डः

मन्तव्यमिति । विज्ञानयोगिना 'भ्रातृणामथ दम्पत्योः' इति वचनव्याख्याने तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति अन्यथा स्तेयं स्यादिति, तत्तु दायहरत्वप्रतिपादकं न भवति किं स्वतिथिभोजनभिक्षाप्रदानादिस्वाम्यमात्रमित्यनुसन्धेयं । अपरार्केण तु 'यदि कुर्यात्समानंशान्' इत्यत्र अंशशब्दो विभाज्यद्रव्यैकदेशपरः । अतश्च पत्नीनामंशहरत्वं नास्तीति पत्युरिच्छया यत्किंचिद्देयमित्येवं परमिति । अतो मतत्रयेऽपि न दायभाक्त्वं स्त्रीणां अपित्वंशहरत्वं । तच्च स्त्रीधनसद्भावतारतम्यनिबन्धनं प्रागुक्तमनुसन्धेयं । भाष्यकारमते तु शूद्रपत्नीनां विभागो लोकाचार सिद्ध इति मन्तव्यं ।

 यत्तु विष्णुनोक्तम्-- 'अनूढाश्च दुहितरः पुत्रभागानुसारिभागहारिण्या' इति; तत्त्वनूढेति विशेषणोपादानात् स्वविवाहार्थं पुत्रभागानुसारिभागग्रहणं यथाशक्ति; न पुनः मातृणामिव जीवनार्थमंशहरत्वमिति गम्यते । अत एव देवलेनोक्तम्--

 कन्याभ्यश्च पितुर्द्रव्यं देयं वैवाहिकं (धनम्) वसु । वैवाहिकं वसु-- विवाहप्रयोजनकं धनमित्यर्थः । अत एवाह याज्ञवल्क्यः--

भगिन्यश्च निजादंशाद्दत्वाऽशं तु तुरीयकम् ।

इति । अस्यार्थः-- भगिन्यश्चासंस्कृता स्संस्कर्तर्व्या भ्रातृभिः; किं कृत्वा ? निजादंशाच्चतुर्थमंशं दत्वा । अनेन दुहितरः पितुरूर्ध्वमंशभागिन्य इति गम्यते । अत्र निजादंशादिति प्रत्येकं परिकल्पितादंशात् उद्धृत्य चतुर्थांशो दातव्य इत्ययमर्थो न भवति । किं तु यज्जातीया कन्या तज्जातीयपुत्रभागात् चतु