पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
337
व्यवहारकाण्डः

त्रिपक्षप्रतीक्षणं व्याकुर्वते । तन्मते सीमानिर्णयाय कुकूलधारणं नास्ति । यत्रस्ति तत्र त्रिपक्षप्रतीक्षणमुक्तरीत्येति भारुचेरभिप्रायः । यत्तूक्तं विष्णुना--

 'सीमाविवादे मरणान्तिका जयव्यवस्थेति' तत्तु विषयानन्तरेण राज्ञा विषयान्तरस्थस्य राज्ञस्सीमाविवादे युद्धसाध्यविषये केचन त्रैविद्यवृद्धाः विवदमानराजद्वयमनुमान्य तत्सीमापरिज्ञातारं कुकूलधारणादिनियमेन नयेयुः । यदा सत्य(तस्य)भङ्गः स तु हन्तव्यं इति तद्विषयः । तत्प्रकारश्च अनेकस्मृतिसिद्धः संगृह्य किंचिदुच्यते-- राज्ञोस्सीमानिमित्ते विवदमानयोध्यस्थैरागत्य तत्सीमानिर्णयार्थं तत्परिज्ञातृपुरुषं यं कं चन समाहूय तमेकेन नयनेन साञ्जनं अन्येन निरञ्जनमेकेन केशभागेन शिखावन्तमन्येन विस्रस्तकेशमेकेन पादेन सोपानत्कमन्येन निरुपानत्कं धृतकौपीनं बद्धमौनं कृत्वा आमकुकूलमध्ये जलं निक्षिप्य तन्मध्ये गणेशमर्चयित्वा तन्कुकूले दिक्पालाद्यावाहनं दिव्यमातृकोक्तं विधाय वरुणपूजां कृत्वा धरणीवराहमावाह्य 'उद्धृतासीति' मन्त्रेण पूजयित्वाऽपश्चाल्लोकं नयेत् । पश्चाद्भागं न लोकितवान् अपश्चाल्लोकः । तस्मिन्नेकादशपदचंक्रमणैः सीमामुन्नयति सति कुकूलजलशोषो वा कुकूलभंगो वा यदि स्यात्तं तथैवानुयायिनः प्रत्यर्थिनो हन्युः । अत्र साद्यस्कीजयपराजयव्यवस्था । नचात्र त्रिपक्षप्रतीक्षणमिति । विवादकालमाह मनुः--

सीमां प्रति समुत्पन्ने विवादे र्ग्रामयोर्द्वयोः ।
ज्येष्ठमासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥

S.VILASA
43