पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
303
व्यवहारकाण्डः

उपानयेत्-- स्वीकुर्यादित्यर्थः । अत एव याज्ञवल्क्यः--

यथाऽर्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा ।

इति । गोपो गोपालः । यावत्यः प्रातस्समर्पिताः तावत्यः प्रत्यर्पणीया इत्यर्थः । तथाच बृहस्पतिः--

 'सायं समर्पयेत्सर्वं' इति, सर्वासमर्पणे त्वाह याज्ञवल्क्यः--

 प्रमादहृतनष्टांश्च प्रदाप्यः कृतवेतनः ।

इति । कृतवेतनः-- पालक इत्यर्थः । प्रमादग्रहणं पालकदोषोपलक्षणार्थं । तेन हरणमरणादिविषये निर्दोषश्चेत् पालको न दाप्यः । अत एव मनुः--

विघुष्योपहतं चोरैर्न पालो दातुमर्हति ।
यदि देशे च काले च स्वामिनस्स्वस्य शंसति ॥

विघोषणं काहलवेण्वादिना बहूनामनुभावनार्थं । देशो यत्र स्वामी स्थितस्सोऽभिमतः । कालोऽनतिविलम्बितः । एवंभूतं देशं कालं वा यदा स्वदोषेणातिक्रम्य देशान्तरे कालान्तरे वा शंसति तदा सोऽपराधानुसाराद्दातुमर्हतीति गम्यते ॥ कृचिद्विशेषे पालकस्य निर्दोषत्वमाहव्यासः--

पालग्रहे ग्रामघाते तथा राष्ट्रस्य विभ्रमे ।
यत्प्रणष्टं हृतं वा स्यान्न पालस्तत्र किल्बिषी ॥

अत्र विशेष माह मनुः--

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥

नष्टं-- कुत्र तिष्ठतीत्यविदितं । कृमिभिर्विनष्टं प्रध्वस्तं । श्वहतं शुना हतं । विषमे मृतं कर्दमादौ मृतं । पुरुषकारेण हीनं-- भु(श)क्तिहीनं ।