ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः ।
समं दद्यात्तु तत्पुत्रो न दद्यादिति निश्रयः ॥
इति व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं-- यद्गृहीतं तावदेव दद्यात् न वृद्धिं । तथा सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं सममेव दद्यात् । तयोःपौत्रपुत्रयोस्सुतौ-- प्रपौत्रपौत्रौ च प्रातिभाव्यायातं ऋणं यथाक्रमगृहीतधनौ दाप्याविति वचनार्थः । अधमर्णस्य वित्तहीनत्वे खादकत्वे च प्रतिभूर्वित्तवान् स्मृतः । तस्य पुत्रेण मूल्यमेव दातव्यं न वृद्धिः ।
खादको वित्तहीनश्चेत् लग्नको वित्तवान् यदि ।
मूलं तस्य भवेद्देयं न वृद्धिं दातुमर्हति ॥
यत्र दर्शनप्रतिभूःप्रत्ययप्रतिभूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभर्जातः तत्र तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृणं दद्युरेव ॥
गृहीत्वा बन्धकं यत्र दर्शने यः स्थितो भवेत् ।
विना पित्रा धनात्तस्माद्दाप्यस्स्यात्तदृणं सुतः ॥
इति । दर्शनग्रहणं प्रत्ययस्याप्युपलक्षकं । विना पित्रेति पितरि प्रेते दूरदेशं गते वा । अत्र बृहस्पतिः--
आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥
आद्यौ-- दर्शनप्रत्ययप्रतिभुवौ । वितथे अहमेनं दर्शयिष्यामि साधुरेष इत्येवंविधयोः प्रतिभूवाक्ययोर्मिथ्यात्वे । उत्तरौदानद्रव्यार्पणप्रतिभुवौ । विसंवादे-- शाठ्यादिना धने ऋणिकेनाप्रवृत्ते । तौ विना-- उत्तरयोः प्रवासे वा मरणे वा जाते ।