पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
160
श्रीसरस्वतीविलासे

कुद्दालपाणिर्विज्ञेयः सेतुच्छेता समीपगः ।
तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥
प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥

इति । हारीतस्तु--

कश्चित्कृत्वाऽऽत्मनश्चिह्नं द्वेषात्परमुपद्रवेत् ।
[१]युक्तिहेत्वर्थसम्बन्धैस्तत्र युक्तं परीक्षणम् ॥

तथा च नारदः--

यात्यचोरोऽपि चोरत्वं चोरश्चायात्यचोरताम् ।
अचोरश्चोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥

अतः परीक्षणमावश्यकमित्यभिप्रायः । अयमभिसन्धिः-- अत्राक्रोशाभावविशिष्टा एव लिखितादयः प्रमाणपदवीमवगाहन्ते, नान्यथा । अत एवाह विष्णुः-- 'आसिद्धमनासिद्धमेव' इति । एतद्व्याचष्टे भारुचिः--

 आसिद्धं सर्वलिखितं भुक्तिप्रभृति [२]अवरुद्धं आसमन्तात्सिद्धं न भवति [३]कदापि सिद्धं न भवतीत्यर्थः ।

यत्तुनारदेनोक्तं--

वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥

इति । एतद्व्याख्यातं चन्द्रिकाकारेण-- सन्दिग्धार्थनिर्णय उदासीनं तन्निर्णयाय प्रवर्तितव्यमित्यादि चार्थिनो वचनमव



  1. हेत्वर्थगतिसामर्थ्यैस्तत्र.
  2. इति नारदस्मृतौ दृश्यते.
  3. कदाचिदपि न सिध्यतीत्यर्थः.