पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
153
व्यवहारकाण्डः

दाराभिमर्शी ब्राह्मणक्षेत्रापहारी ब्राह्मणधनापहारी ब्राह्मणे महापातकाभियोक्ता शस्त्रपाणिः ब्राह्मणे ब्राह्मणे महाभियोगे कूटसाक्षी ब्रह्मगृहेष्वग्निदः ब्राह्मणे गरदश्चेति । अत्र गरदत्वं औषध्यादिना निवृत्ते विषे । अन्यथा महापातकित्वप्रसङ्गात् ॥

उद्यतासिविषाग्निश्च [१]शापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ॥

इति । अतश्च--

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहर्ता च षडेते आततायिनः ॥

इति उपलक्षणं वेदितव्यम् ।

धर्मशास्त्रार्थशास्त्रयोर्बलाबलविवेचना ।

 अत्र केचिदेवं परिहारमाहुः-- धर्मशास्त्रान्तर्गतमेव अर्थशास्त्रमिह विवक्षितं, नोशनसादिनिर्मितमर्थशास्त्रम् । अतश्च धर्मशास्त्रविरोधे अर्थशास्त्रं दुर्बलम् । यथोक्तं याज्ञवल्क्येन--

अर्थशास्त्रात्तु बलवत् धर्मशास्त्रमिति स्थितिः ।

इति । यद्यपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपतो विशेषो नास्ति, तथाऽपि प्रमेयस्य धर्मप्राधान्यात् अर्थस्याप्राधान्यात् धर्मशास्त्रं बलवदित्यभिप्रायः । अतश्च धर्मशास्त्रार्थशास्त्रयोर्विरोधे अर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्प इति । तदयुक्तम्-- अनयोरेकविषय



 S.VILASA.
20
 
  1. चापोद्यत.