पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ ! सरोवर्तकण्ठाभरणं শিল্যাণ ৪, ओोरञ्ज ॥ ९९ ॥ चत्वारोऽर्था अनुवर्तन्ते । उवर्णान्तात् प्रातिपदिकात् यथायथं सम* थैविभक्तियुक्तादञ्प्रत्ययो भवति निवासादिषु चतुष्किर्वर्येपु । अणे वादः । अ(न? र)डु, अा(न? र)डवः । कक्षतु, काक्षतवः । कर्कटेळु कर्कटेलवः । अञधिकारः प्राक् सुवास्त्वादिभ्यः । मतो बहुवच्प्रकृते: ॥ १०० ॥ बह्वच् प्रकृतिर्यस्यासौ बह्वच्प्रकृतिः ॥ घह्वच्प्रकृतेः मतुबन्तात् प्रातिपदिकात् अञ्प्रल्ययो भवति चातुरर्थिकः । अणोऽपवादः । यथासम्भवमर्थः सम्बध्यते । ऐकटावतम् । सन्दुकावतम् । वारणावतम् । चहच्प्रकृतेरिति किम् । अहिमतम् । यावमतम् । प्रकृतिग्रहणं किम् ! बह्वजिति तद्विशेघणं यथा विज्ञायेत, मत्वन्तविशेषणं मा विज्ञायीति । मालावतां निवासी मालावंती ॥ बह्वचः कूपेषु ॥ १०१ ॥ बह्वचः प्रातिपदिकादञ्प्रत्ययो भवति चातुरर्थिकः कूपेष्वाभिधेयेषु । अणोऽपवादः । यथासम्भवमर्थाः सम्बध्यन्ते । दीर्घवरण निर्वृत्तः दैधैवरत्रः कूपः । कापिलवरत्रः ॥ उदकू च विपाशः ॥ १०२ ॥ विपाशो नद्या उत्तेरे कूल ये कूपास्तेष्वाभिधेयेपु अञ्प्रत्ययो भवति चातुरर्थिकः । अयह्वजर्ये अारम्भः । दत्तेन निर्वृत्तः दात्तः कूपः । गौप्तः । उदगति केम् ' दक्षिणते वयः कूपेष्वणेव भवति । दत्तः गौतः । स्वरे विशेपः । महती सूक्ष्मेक्षिका वर्तते (सूत्रकारस्य ) ।। सङ्कलपुष्कलतृलासमूलासपलाशभल्लपालकपालबहुलेभ्यः ॥ १०३ ॥ कूपेष्विति निवृत्तम् । सङ्कलादिभ्यः शब्देभ्योऽञ्प्रत्ययो भवति चातुरर्थिकः l अणोऽपवादः । यथासम्भवमर्थसम्घन्धः । सङ्गतः कलः'