पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- [ सप्तमप्रश्वे- सोमः कस्यो विक्रेतव्य एवायमिति निश्चयेन प्रसारितोऽस्त्यस्मिन्देशे किमिति प्रभा वाक्यस्यार्थः । प्रश्ने प्लुतिः । अद्भिरभ्युक्ष्य चर्मोदूहतीति बौधायनः ।

क्रय्य इति स प्रत्याह ।

स सोमविक्रयी क्रय्य इति प्रतियात् ।

दशभिः क्रीणाति ।

दशभिरित्यत्र व्यक्तिमिरित्येव शेषो नतु द्रव्यरिति । गोधेनुतद्वत्सर्षभानडुन्मिथुन. गवां सप्तत्वेऽपि गोत्वावच्छिन्नपदार्थस्यैकत्वेन दशभिः क्रीणातीतिदशसंख्यानुपपत्तेः । नत्र गोत्ववढेनुत्वतद्वत्सतर्षभत्लानात्वमिथुनगोत्वजातिरूपधर्ममेदमादाय द्रव्यमेव इति वाच्यम् । गोत्वादिना सांकर्येण धेनुत्वादीनां जातिस्वासमवात् । सप्त गाव इति गोजातीयस्वेनैवैतेषां सूत्रकृत्कृतनिर्देशानुपपत्तेश्च । एतानीतिवक्ष्यमाणसूत्रस्थपदानन्तरं क्रयणानीति पदं देयम् । तावतैव दशसंख्यालामो भविष्यतीति चेत् । न भविष्यति । कुतः । विकल्पस्यापि संभवात् । अतः समुच्चयसिद्धयर्थमिदं सूत्रमावश्यकमेव । अय- मर्थ उक्तो द्वादशाध्याय चतुर्थे पादे-क्रयणेषु तु विकल्पः स्यादेकार्थत्वात् । समुच्च- यो वा प्रयोगे द्रव्यसमवायादिति सूत्राभ्यां जैमिनिना । सूत्रार्थस्तु क्रीयते सोमो यस्तानि क्रयणानि द्रव्याणि तेषु क्रयणेषु । तुशब्दो याजमानमन्त्रनपसमुच्चयवदत्र समुच्चयो न भवति. किंतु विकल इति वैलक्षण्यद्योतनाय । एकार्थत्वादानति- रूपकार्यक्याद्विकल्पः स्यादिति । यद्यपि तत्तव्यसाधनक्रयादानतिविलक्षणैव जायत इति द्वारकार्यभेदान्न विकल्पसंभवस्तथाऽप्यानतिसामान्यैक्याद्वारकार्यमप्येकमिति मावः । इति पूर्वसूत्रार्थः । द्रव्यसमवायादशभिः कोणातीतिवचनप्रतिपादितादिति शेषः । अन्यत्स्पष्टम् । [ इति ] उत्तरसूत्रार्थः । ता व्यक्तीराह-

सप्त गावो हिरण्यं वासोऽजा च त्रीण्येतानि ।

सप्तसु गोषु एक आद्यो गोपदार्थ उपक्लुप्ता सोमक्रयणी समझा बधुमतीत्यादिल. क्षणलक्षितः । द्वितीयो धेनुरूपः । धेनुर्नवप्रसूता । तृतीयो धेनुवत्सरूपः । चतुर्थ सुषमरूपः । पञ्चमः शकटवाहिबलोवर्दरूपः । षष्ठसप्तमौ मिथुनगोरूपौ । एताः सप्त गावः । एतानि हिरण्यवासोनात्मकानि त्रीणि द्रव्याणि चै दश व्यक्तय इत्यर्थः । चकारः परस्परसमुच्चयार्थः । वीणीतिवचन सप्तगवां कयप्रदेशे सहैव संनिधापनमिपै. तेषां त्रयाणामपि सहव संनिधापनं कर्तव्यमितिज्ञापनार्थम् । त्रीणीत्येतावतैव सिद्ध एता- नीतिवचनं हिरण्यवासोजाना जातयोऽपि कदाचित्संख्पासंपादिका नतु व्यक्तय एवेति नियम इतिज्ञापनार्थम् । तेन षोडशमाषात्मकस्तर्णरूपहिरण्यद्वयं त्रयमितोऽप्यधिक वाऽपि शक्त्यनुसारेण देयम् । एवं वासोद्वयं त्रयमधिकं वाऽपि तथाऽजाद्वयं त्रयम