पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२ सत्याषाढविरचितं श्रौतसूत्र-: [७ सप्तमप्रश्ले- शेषः । परवल्लिङ्गमित्यनेन स्त्रीलिङ्गान्ततव । तल्लक्षणविशेषत्वामानात् । प्रायणीयाप्रभृति- वित्यनेन यथा दक्षिणी याया निषेधविषये व्यावृत्तिस्तद्वत्करणविषयेऽपि व्यावृत्तिरित्यर्थ बोधयितुमिदं सूत्रम् । अत एवेतराम क्रियन्त इति परित्यज्योत्तर।सु क्रियन्त इत्युत्तरशब्द. मणं कृतम् । एवं चोभयत्रापि दीक्षणीयायाः परित्यागाद्विकल्पः सिध्यति । स च व्यवस्थितः पूर्वत्र दीक्षणीयायामसिद्धार्थत्वात्सर्वाणि एतानि भवन्ति उत्तरत्र दीक्षणी. यायां सिद्धार्थत्वान्नैतानीति द्रष्टव्यम् । ब्रह्मवरणमपि सोमार्थवरणेनैव सिद्धत्वान्न भव- तीत्युक्तमेव प्राक् । न चैवं प्राकृतहोतृवरणस्यापि समन्त्रकहोतृवरणेन सोमार्थेन सिद्धि- रस्त्विति वाच्यम् । अदृष्टार्थस्य प्राकृतवरणस्य दृष्टायन सौमिकेन वरणेन प्रसङ्गसिद्ध. रभावात् । प्रवृत्तेषु हि के चित्पदार्थेषु पश्चादग्निदेवो होता देवान्यक्षद्विद्वारश्चिकित्व- दित्यादिना प्रकृतौ होतृवरणमानातमतस्तस्य प्रवृत्तत्वेन दृष्टार्थत्वानुपपत्तेरदृष्टार्थत्वम् । सौमिकस्य तु अप्रवृत्ताभ्यर्थनरूपत्वादृष्टार्थत्वमेवेति । तथा च द्वादशाध्याये प्रथमपादे जैमिनिः-प्रवृत्तवरणत्वात्प्रतितन्त्रं वरणं होतुः क्रियतेति । सूत्रार्थस्नु प्रवृत्तस्य कर्मणि प्रवृत्तस्य होतुर्वरणत्वात्प्रवृत्तहोतृसंबन्धिवरणत्वात्प्रवृत्तं होतृसंबन्धि अग्निर्देवो होते. त्येतद्वरणम् । एतेनाऽऽनतिरूपदृष्टार्थत्वं व्यावय॑ते । तथाचेदं बरणमदृष्टार्थमित्युक्तं भवति । एवं च दृष्टार्थवरणेनादृष्टार्थवरणप्रसङ्गसिद्धरमावात् । दीक्षणीयादि कौष्टिक पाशुकं च तन्त्रशब्देनोच्यते । तत्र सर्वत्र होतुर्वरण क्रियेत कर्तव्य मेवेति ।

सवनीये पशौ सवनीयेषु च पुरोडाशेषु नाग्न्यन्वाधानं विद्यते ।। ४ ।।

दीक्षणीयया प्रधानार्थयाऽऽरादुपकारिण्या यजमानसंस्कारिण्या चार्थवादवलेन . याज्यालिङ्गेन च सोमदेवतापरिग्रहोऽपि कार्य इति सूचयितुमेव निषेधः । दक्षिणी- यया सोमदेवतापरिग्रहासिद्धौ तु तत्कालपातिप्तवनीयपशुसवनीयपशुपुरोडाश देवतानाम- परिग्रहासिद्धौ सूचीसूत्रन्यायेन तत्पृष्ठलग्नायां निषेधस्यासंगत्यापत्तेः । तस्मादेतन्निषेध बलाहीक्षणीयया सोमदेवतापरिग्रहः क्रियत इत्येवाङ्गोकर्तव्यम् । अन्वाधान द्विविधम् । प्रत्यक्षामिग्रहणं प्रथममङ्गम् । तच्च विहरू पाभिः साध्यम् । देवनारूपाग्निग्रहणं द्विती. 'यम् । एवं हीष्टं सूत्रकारस्य देवतारूपानेः परिग्रहणेन देवतापरिग्रहों भवति नतु प्रत्यक्षाग्निधारणेन विहव्यान्वाधान त्यत्रेदमेव लिङ्गम् | आग्नावैष्णवमेकादशकपाळ निपेरित्युपक्रम्याऽऽहाग्निरवमो देवतानां विष्णुः परमो यदानावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य यजमानोऽबरुन्ध इति देवताया अग्नविष्याश्च परि- अहेण प्रधानदेवतापरिग्रह एवोक्तः । प्रधान सुत्या. तदर्था दीक्षा । उक्तं च तृतीया. ।