पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्यापादविरचितं श्रौतसूत्रं- [अष्टमप्रका] नित्यस्मिन्समस्ते पदे बहुत्वस्यापि संभावनायां द्विविधयोः शकलयोद्वित्वमेव नियतमिः येतादृशमर्थं प्रदर्शयितुमुपकरिपतशकलानां विनियोग प्रदर्शयितुं च प्रोसिताभ्यामिति वचनम् । शकलवचनमसदेहार्थम् । शुक्रामन्धिमौ ग्रहो । अपिधत्त इत्यनेन शकलयो। रपिधानयोग्ययोरुपकल्पनं द्योत्यते । अप्रोक्षिताम्यामितिवचनप्रयोजनं प्रोक्षितवचनव- ज्ज्ञेयम् । अपनुत्तौ शण्डामौं सह तेन यं द्विष्म इत्येष एव मन्त्रः प्रतिप्रस्थातुरपि । अप्रोक्षिताभ्यां शकलाभ्यां पात्राधस्ताद्भागगतापांसूनपध्वंसयतोऽपगमयतः । अध्वर्युन प्रतिप्रस्थाताराविति शेषः सर्वत्रात्र द्विवचनेषु । ताभ्यामप्रोमिताभ्यामेवोपयच्छतः । उपयमनं शुक्रामन्धिपात्रयोः कुरुतः । चकारो मन्त्रानुवृत्त्यर्थः । अथवाऽयमधः-ताभ्यां प्रोक्षिताभ्यामुपयच्छतः । चकारो हस्तसमुच्चयार्थ इति । अस्ति चापिगृह्य प्राञ्चौ निष्कामत इत्यस्यां श्रुतौ ग्रहधातुलिङ्गम् । तथा च दक्षिणेन हस्तेनोपरिष्टाद्वानाधस्तादित्येवं परिगृह्य प्राची प्राङ्मुखौ निष्कामत इत्यर्थः सिद्धो भवति । अस्मिन्मन्त्रे सामान्यरू. पेणैव द्वेष्यस्य निर्देशो न नाम्ना । अदाशब्दाभावात् । अपनुत्तौ प्रतिहतौ ।

स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युर्हरति स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता।

इविधानद्वयाग्रभागं प्रति हरणं संप्रधानस्य तत्रैव करिष्यमाणत्वात् । मन्त्रभेदा- स्पृथनिर्देशः ।

तावादानावेके समामनन्त्युर्वन्तरिक्षमिति गच्छतः।

तौ स्तुतोऽसि जनधा इति मन्त्रावादानावादानक्रियाविति एके शाखिनः समामननित बदन्तीत्यर्थः । अस्मिन्पक्षे सावित्रस्य निवृत्तिः । आहरणमन्त्रोऽस्मिन्पक्ष उर्वन्तरिक्ष. मिति । मच्छतः शुक्रामन्थिम्यां सह गच्छत इत्यर्थः। प्रसिद्धत्वादविहीति मन्त्रान्तः । आपस्तम्बोऽपि स्पष्टमाह-उर्वन्तरिक्षमन्विहीत्यभिप्रबनत इति ।

आयुः संधत्तं तं मे जिन्वतं प्राणꣳ संधत्तं तं मे जिन्वतमपानꣳ संधत्तं तं मे जिन्वतं व्यानꣳ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतꣳ श्रोत्रꣳ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचꣳ संधत्तं तां मे जिन्वतमित्यग्रेण हविर्धाने अरत्नी पात्रे वा संधत्तः ।

अग्रेण हविर्धाने हविधीनयोरग्रतः समीप इत्यर्थः । हविर्धानशब्दस्य द्विवचनान्त- स्वेन शकटे एव गृह्येते न तु मण्डपः । दक्षिणहविर्धानाग्रतः समीपेऽयर्युरुत्तरहवि. र्धानामतः समीपे प्रतिप्रस्थाता स्थित्वाऽरत्नी पात्रे वोभी संधत्तो योजयतः... सं.श्लेषयत इत्ययः । अरनी हस्तौ पात्रे शुक्रामन्धिनोंः । ब्रह्म संघतमित्येतेन ब्राह्मणोक्तेनायं विकल्पते ।