पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० पटकः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । माभिदेशेन स्त्रवत्या धाराया इत्यर्थः । स्रवत्या धाराया इत्वपादाने पञ्चमी । स्रवत्या i धारायाः सकाशाद्धृवान्तान्ग्रहानगृह्णातीत्यर्थः । अण्व्या धारया ग्रहान्गृह्णातीत्यैन्द्रवाय- वादिषु धारायामणुत्वविशेषणादन्तर्यामे महत्येव धारा । मीमांसकमते तु अन्तर्यामस्व धाराग्रहत्वं नास्तीति द्रष्टव्यम् । एतदन्ता परिभाषा धाराग्रहाणाम् । ..:

उपयामगृहीतोऽस्यन्तर्यच्छेत्यन्तर्यामम् ।

मादयस्वेत्यन्तः । गृह्णातीति पूर्वमूत्रादनुवर्तते ।

तस्योपाꣳशुना कल्पो व्याख्यातः ।

उत्यानगमने एव पर्यवसानमेतस्य सूत्रस्य । परं त्वत्रोस्थानमन्त्रस्यानो विशेषः

स्वांकृतोऽसि मधुमतीने इषस्कृधि विश्वेभ्यस्त्वन्द्रियेम्यो दिव्यम्यः पार्थिवेश्य इति । अन्यथोपांशुदृष्टस्य स्वांकृतोऽसीत्येतावन एव ग्रहणे मधुमतीरित्यय प्रकरणपठितस्य वैयापतेः। उपांशुना कल्पो व्याख्यात इत्यनेन प्राप्तमुत्तरेण होतारमतिकभ्येत्यादिकं तदाधकः विशेषमाह-

दक्षिणेन होतारमतिक्रम्य वाक्त्वाऽष्ट्विति दक्षिणं परि- धिसंधिमन्ववतिष्ठते दक्षिणं परिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति प्राञ्चमुदञ्चमृजुं दीर्घꣳ संततं जुहोति ।

वाक्त्वाऽष्ट्रित्ययं मनस्त्वाऽष्ट्वित्यनेन स्व शाखास्थेन मन्त्रेग विकल्पते । अथ पोत्या- नमशेष एव मनस्त्वाऽष्ट्रित्ययमंशः । स्वाहा वा सुभवः सूर्यायति पुनमन्त्रवच पूर्वमन्त्रतोऽन्तकृतवैनात्यं द्योतयति । तथा च देवेभ्यस्त्वा मरीचिपेय इति होममन्त्र स्यैव शेषो विनियोगान्तरासंभवादिति सिद्धं भवति । प्राञ्चपुरश्चपैशानीविपर्यन्तम् । उपांशुना कल्पों व्याख्यात इत्यनेनैव सिद्ध ने दीर्घ संततमितिवचने में कामयेत प्रमायुकः स्यादिति नियं तस्य जहयाधं द्विष्यात्तस्य हवं विच्छिन्नं जुहुयादिति- सूत्रान्तरोतकाम्यतानिरासार्थम् ।

न परिधौ लेपं निमार्ष्टि नाऽऽग्रयणस्थाल्याꣳ संपातमवनयति

चेन सर्वस्य होमः । सशेषहोमपक्षे संपाताबनयनरूपप्रतिपत्तेरमावासमं भवत्येव ।

एष ते योनिरपानाय त्वेति पात्रꣳ सादयति ।

पात्रान्तर्यामपात्रं, सादनमायतने ।

नाꣳशुमवदधाति ।

सष्टम् । १ स. स्थानाग । २ ख. त्यानं मन्नः ! स्वा ।